श्रवणम्

10.25.4
समु॒ प्र य᳚न्ति धी॒तय॒ः सर्गा᳚सो॑व॒ता{4} इ᳚व ।
क्रतुं᳚ नः सोम जी॒वसे॒ वि वो॒ मदे᳚ धा॒रया᳚ चम॒सा{4} इ᳚व॒ विव᳚क्षसे ॥
▶ पदपाठः (Word-by-word)
सम् । ऊं॒ इति᳚ । प्र । य॒न्ति॒ । धी॒तयः᳚ । सर्गा᳚सः । अ॒व॒तान्॑इ᳚व ।
क्रतु᳚म् । नः॒ । सो॒म॒ । जी॒वसे᳚ । वि । वः॒ । मदे᳚ । धा॒रय᳚ । च॒म॒सान्॑इ᳚व । विव᳚क्षसे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम धीतयः देवतागुणान् दधति गृह्णन्तीति धीतयः स्तुतयः अस्मदीयाः समु सं- भूयैव प्रयन्ति । प्रकृष्टया गत्या त्वां गच्छन्ति तत्र दृष्टान्तः—सर्गासोवतानिव विसृज्यन्ते उदकपानार्थमिति सर्गागोसंघाः यन्त्रस्थाघटसंघावा ते यथा उदकपानार्थमादानार्थं वा अवतान् कूपनामैतत् कूपान् प्रतिगच्छन्ति तद्वत् त्वमप्येतत् ज्ञात्वा क्रतुं यागादिकं कर्म प्रज्ञां वा नोस्माकं जीवसे चिरंजीवनाय धारय महतादरेण स्थापय । तत्र दृष्टान्तः—चम सानिव यथा वस्तव विमदे विविधसोमजन्यमदेकर्तव्यत्वेन निमित्तभूते सति अध्वर्युर्हवि- र्धाने महता यत्नेन चमसान् सोमपात्राणिस्थापयति तद्वत् कस्मादेवमुच्यसे यस्मात्त्वं विवक्षसे महान् भवसि । यद्वाधीतयः अंगुलिनामैतत् धयन्ति पिबन्त्याभिरिति धीतयोङ्- गुलयः हे सोम त्वां समुप्रयन्ति सहैव प्रकर्षेण त्वां प्राप्नुवन्ति । किमिव अवतानिव ज- लोद्धरणार्थं विसृज्यन्तइति सर्गाः रज्जवः यथा कूपान्प्रति गच्छन्ति तद्वत् । ततस्त्वं नो- स्माकं जीवसे चिरं जीवनाय क्रतुं कर्म धारय यथा संपूर्ण भवति तथा पूरय । किमिव यथा चमसान् स्वयं पूरयसि तद्वत् ॥ ४ ॥