र॒क्षो॒हणं᳚ वा॒जिन॒मा जि᳚घर्मि मि॒त्रं प्रथि᳚ष्ठ॒मुप᳚ यामि॒ शर्म᳚ ।
शिशा᳚नो अ॒ग्निः क्रतु᳚भि॒ः समि᳚द्ध॒ः स नो॒ दिवा॒ स रि॒षः पा᳚तु॒ नक्त᳚म् ॥
र॒क्षः॒॑हन᳚म् । वा॒जिन᳚म् । आ । जि॒घ॒र्मि॒ । मि॒त्रम् । प्रथि᳚ष्ठम् । उप᳚ । या॒मि॒ । शर्म᳚ ।
शिशा᳚नः । अ॒ग्निः । क्रतु᳚॑भिः । सम्॑इ᳚द्धः । सः । नः॒ । दिवा᳚ । सः । रि॒षः । पा॒तु॒ । नक्त᳚म् ॥
रक्षोहणमिति पञ्चविंशत्यृचं त्रृतीयं सूक्तम्। पायुर्नाम भारद्वाज ऋषिः। द्वाविंशाद्याश्चतस्रोऽनुष्टुभः। शिष्टा एकविंशतिस्त्रिष्टुभः। रक्षोहाग्निर्देवता। तथा चानुक्रान्तम्। रक्षोहणं पञ्चाधिकापायुराग्नेयं राक्षोघ्नं चतुरनुष्टुबन्तमिति। गतः सूक्तविनियोगः। अङ्गाराभिविहरणे परि त्वाग्न इत्येषा जप्या। सूत्रितं च। धिष्ण्यावतामित्याद्ना परित्वाग्ने पुरं वयमित्यन्तेन। आ. ५-१३॥
रक्षोहनं रक्षसा हन्तारं वाजिनं बलवन्तमन्नवन्तं वाग्निमा जिघर्मि। घृतेनाजुहोमि। किञ्च मित्रं यजमानानां सखायं प्रथिष्ठं पृथुतमं शर्म गृहमुप यामि। उपगच्छामि। सोऽयमग्निः शिशानो ज्वालास्तीक्ष्णीकुर्वन् क्रतुभिः कर्मपरैः पुरुषैः समिद्धः प्रज्वालितो भवति। किञ्च सोऽग्निर्नोऽस्मान्दिवाहनि रिषो हिंसकाद्रक्षसः पातु। रक्षतु। सोऽग्निर्नक्तं रात्रौ चास्मान्रक्षसः पातु॥१॥
अयो᳚दंष्ट्रो अ॒र्चिषा᳚ यातु॒धाना॒नुप᳚ स्पृश जातवेद॒ः समि᳚द्धः ।
आ जि॒ह्वया॒ मूर᳚देवान्रभस्व क्र॒व्यादो᳚ वृ॒क्त्व्यपि᳚ धत्स्वा॒सन् ॥
अयः᳚॑दंष्ट्रः । अ॒र्चिषा᳚ । या॒तु॒॑धाना᳚न् । उप᳚ । स्पृ॒श॒ । जा॒त॒॑वे॒दः॒ । सम्॑इ᳚द्धः ।
आ । जि॒ह्वया᳚ । मूर᳚॑देवान् । र॒भ॒स्व॒ । क्र॒व्य॒॑अदः᳚ । वृ॒क्त्वी । अपि᳚ । ध॒त्स्व॒ । आ॒सन् ॥
हे जातवेदो जातधन जातप्रज्ञ वा त्वं समिद्धः सम्यग्दीप्तोऽयो दंष्ट्रोऽयोमयदंष्ट्रः। तीक्ष्णदंष्ट्रः सन्नित्यर्थः। यातुधानान्राक्षसानर्चिषा ज्वालयोप स्पृश। सन्दहेत्यर्थः। किञ्च त्वं मूरदेवान् मूढदेवान्मारकव्यापारान्राक्षसाञ्जिह्वया ज्वालया रभस्व्व। मारयेत्यर्थः। मारयित्वा च क्रव्यादो मांसभक्षकान्राक्षसान्वृक्त्वी छित्त्वासन्नास्येऽपि धत्स्व। अपिधेहि। अच्छादयेत्यर्थः॥२॥
उ॒भोभ᳚यावि॒न्नुप᳚ धेहि॒ दंष्ट्रा᳚ हिं॒स्रः शिशा॒नो॑व᳚रं॒ परं᳚ च ।
उ॒तान्तरि᳚क्षे॒ परि᳚ याहि राज॒ञ्जम्भै॒ः सं धे᳚ह्य॒भि या᳚तु॒धाना᳚न् ॥
उ॒भा । उ॒भ॒या॒वि॒न् । उप᳚ । धे॒हि॒ । दंष्ट्रा᳚ । हिं॒स्रः । शिशा᳚नः । अव᳚रम् । पर᳚म् । च॒ ।
उ॒त । अ॒न्तरि᳚क्षे । परि᳚ । या॒हि॒ । रा॒ज॒न् । जम्भैः᳚ । सम् । धे॒हि॒ । अ॒भि । या॒तु॒॑धाना᳚न् ॥
हे उभयाविन्नुभाभ्यां दंष्ट्राभ्यां युक्ताग्ने त्वं हिंस्रो राक्षनानां हिंसकस्त्वमुभोभे दंष्ट्रा दंष्ट्रे शिशानस्तीक्ष्णीकुर्वन्नुप धेहि। वधार्हेषु राक्षसेषु प्रतिष्ठापय। किञ्चावरं परं च जगद्रक्ष। उतापि च हे राजन् दीप्ताग्ने त्वमन्तरिक्षे स्थितान्राक्षसान्परि याहि। परिगच्छ। परिगत्य च तान्यातुधानान्राक्षसाञ्जम्भैर्भक्षनसाधनभूताछिर्द्रंष्ट्राभिरभि सं धेहि। संयोजय भक्षयेत्यर्थः॥३॥
य॒ज्ञैरिषू᳚ः सं॒नम᳚मानो अग्ने वा॒चा श॒ल्या{4} अ॒शनि᳚भिर्दिहा॒नः ।
ताभि᳚र्विध्य॒ हृद᳚ये यातु॒धाना᳚न्प्रती॒चो बा॒हून्प्रति᳚ भङ्ध्येषाम् ॥
य॒ज्ञैः । इषूः᳚ । स॒म्॑नम᳚मानः । अ॒ग्ने॒ । वा॒चा । श॒ल्यान् । अ॒शनि᳚॑भिः । दि॒हा॒नः ।
ताभिः᳚ । वि॒ध्य॒ । हृद᳚ये । या॒तु॒॑धाना᳚न् । प्र॒ती॒चः । बा॒हून् । प्रति᳚ । भ॒ङ्धि॒ । ए॒षा॒म् ॥
हे अग्ने त्वं यज्ञैरस्मदीयैर्बलकरैर्यागैर्वाचास्मदीयया स्तुत्या चेषूर्वक्रान्बाणान् सन्नममानः सन्नमयन् शल्यांस्तासां शल्यानशनिभिर्दीप्तिभिर्दिहानस्तीक्ष्णीकुर्वन् ताभिरिषुभिर्यातुधानान्राक्षसान्हृदये विध्य। तत एषां यातुधानानां सम्बन्धिनः प्रतीचो युद्धाय त्वां प्रतिगतान्बाहून्प्रति भन्धे। प्रत्यामर्दय॥४॥
अग्ने॒ त्वचं᳚ यातु॒धान᳚स्य भिन्धि हिं॒स्राशनि॒र्हर᳚सा हन्त्वेनम् ।
प्र पर्वा᳚णि जातवेदः शृणीहि क्र॒व्यात्क्र᳚वि॒ष्णुर्वि चि᳚नोतु वृ॒क्णम् ॥
अग्ने᳚ । त्वच᳚म् । या॒तु॒॑धान᳚स्य । भि॒न्धि॒ । हिं॒स्रा । अ॒शनिः᳚ । हर᳚सा । ह॒न्तु॒ । ए॒न॒म् ।
प्र । पर्वा᳚णि । जा॒त॒॑वे॒दः॒ । शृ॒णी॒हि॒ । क्र॒व्य॒॑अत् । क्र॒वि॒ष्णुः । वि । चि॒नो॒तु॒ । वृ॒क्णम् ॥
हे जातवेदो जातधन जातप्रज्ञ वाग्ने त्वं यातुधानस्य राक्षसस्य त्वचं भिन्धि। दारय। एनं भिन्नत्वचं यातुधानं हिंस्रा हिंसनशीलं तवाशनिर्वज्रं हरसा तापेन हन्तु। हिनस्तु। हतस्य राक्शसस्य पर्वाणि शरीरपर्वाणि च प्र शृणीहि। छिन्ध्धीत्यर्थः। छिन्नेषु च शरीरसम्बन्धिषु सत्सु वृक्णं छिन्नसन्धिमेनं यातुधानं क्रविष्णुर्मांसमिच्छन् क्रव्यान्मांसभक्षको वृकादिर्वि चिनोतु। भक्षयत्वित्यर्थः॥५॥
यत्रे॒दानीं॒ पश्य᳚सि जातवेद॒स्तिष्ठ᳚न्तमग्न उ॒त वा॒ चर᳚न्तम् ।
यद्वा॒न्तरि᳚क्षे प॒थिभि॒ः पत᳚न्तं॒ तमस्ता᳚ विध्य॒ शर्वा॒ शिशा᳚नः ॥
यत्र᳚ । इ॒दानी᳚म् । पश्य᳚सि । जा॒त॒॑वे॒दः॒ । तिष्ठ᳚न्तम् । अ॒ग्ने॒ । उ॒त । वा॒ । चर᳚न्तम् ।
यत् । वा॒ । अ॒न्तरि᳚क्षे । प॒थि॑भिः᳚ । पत᳚न्तम् । तम् । अस्ता᳚ । वि॒ध्य॒ । शर्वा᳚ । शिशा᳚नः ॥
हे जातवेद उत्पन्नप्रज्ञाग्ने त्वं यत्र पृथिव्यां तिष्ठन्तमुतापि च चरन्तं यद्वान्तर्किषे पथिभिराकाशमार्गैः पतन्तं गच्छन्तं यातुधानमिदानीं सम्प्रति पश्यसि तं यातुधानमस्ता शराणां क्षेप्ता त्वं शिशानः शरांस्तीक्ष्णीकुर्वञ्शर्वा शरेण विध्य॥६॥
उ॒ताल᳚ब्धं स्पृणुहि जातवेद आलेभा॒नादृ॒ष्टिभि᳚र्यातु॒धाना᳚त् ।
अग्ने॒ पूर्वो॒ नि ज᳚हि॒ शोशु᳚चान आ॒माद॒ः क्ष्विङ्का॒स्तम᳚द॒न्त्वेनी᳚ः ॥
उ॒त । आ॑ल᳚ब्धम् । स्पृ॒णु॒हि॒ । जा॒त॒॑वे॒दः॒ । आ॒॑ले॒भा॒नात् । ऋ॒ष्टि॑भिः᳚ । या॒तु॒॑धाना᳚त् ।
अग्ने᳚ । पूर्वः᳚ । नि । ज॒हि॒ । शोशु᳚चानः । आ॒म॒॑अदः᳚ । क्ष्विङ्काः᳚ । तम् । अ॒द॒न्तु॒ । एनीः᳚ ॥
उतापि च हे जातवेदोऽग्ने त्वमालब्धं हन्तुं हस्ताभ्यामरब्धं साधुं मां स्तोतारंयष्टारं वालेभानादालभमानाद्यातुधानाद्राक्षसादृष्टिभिरात्मीयैरायुधविशेषैः स्पृणुहि। पारय। रक्षेत्यर्थः। किञ्च पूर्वो मुख्यस्त्वम् शोशुचानः प्रज्वलन्नि जहि। मां हन्तुमुद्युक्तं यातुधानं मारय। किञ्च तं यातुधानमामादोऽपक्वस्य मांसस्य भक्षकाः क्ष्विङ्काः शब्दकारिण्यः। टुक्षु शब्दे। यद्वा। क्ष्विङ्का नाम पक्षिविशेषाः। एनीर्गन्त्र्योऽदन्तु। भक्षयन्तु॥७॥
इ॒ह प्र ब्रू᳚हि यत॒मः सो अ᳚ग्ने॒ यो या᳚तु॒धानो॒ य इ॒दं कृ॒णोति᳚ ।
तमा र᳚भस्व स॒मिधा᳚ यविष्ठ नृ॒चक्ष᳚स॒श्चक्षु᳚षे रन्धयैनम् ॥
इ॒ह । प्र । ब्रू॒हि॒ । य॒त॒मः । सः । अ॒ग्ने॒ । यः । या॒तु॒॑धानः᳚ । यः । इ॒दम् । कृ॒णोति᳚ ।
तम् । आ । र॒भ॒स्व॒ । स॒म्॑इधा᳚ । य॒वि॒ष्ठ॒ । नृ॒॑चक्ष᳚सः । चक्षु᳚षे । र॒न्ध॒य॒ । ए॒न॒म् ॥
ये यविष्ठ युवतमाग्ने यो यातुधानो राक्षसोऽस्मद्यज्ञविघ्नकारि यश्चान्योऽपि पिशाचादिरिदं यज्ञदूषणादि करोति स यतमः। तमबवधारणार्थम् । इहास्मिंस्त्वद्विषययागकर्मणि वर्तमानाय मह्यं प्र ब्रूहि। तं पापकाअरिणं समिधा स्वकीयेन तेजसा रभस्व। हन्तुं प्रारभस्व। तत एनं पापिष्ठं नृचक्षसो नृणां द्रष्टुस्तव चक्षुषे तेजसे रन्धय। वशं नय। तेजसा सन्दहेत्यर्थः॥८॥
ती॒क्ष्णेना᳚ग्ने॒ चक्षु᳚षा रक्ष य॒ज्ञं प्राञ्चं॒ वसु᳚भ्य॒ः प्र ण᳚य प्रचेतः ।
हिं॒स्रं रक्षां᳚स्य॒भि शोशु᳚चानं॒ मा त्वा᳚ दभन्यातु॒धाना᳚ नृचक्षः ॥
ती॒क्ष्णेन᳚ । अ॒ग्ने॒ । चक्षु᳚षा । र॒क्ष॒ । य॒ज्ञम् । प्राञ्च᳚म् । वसु᳚॑भ्यः । प्र । न॒य॒ । प्र॒॑चे॒तः॒ ।
हिं॒स्रम् । रक्षां᳚सि । अ॒भि । शोशु᳚चानम् । मा । त्वा॒ । द॒भ॒न् । या॒तु॒॑धानाः᳚ । नृ॒॑च॒क्षः॒ ॥
हे अग्ने त्वं तीक्ष्णेन तिग्मेन चक्षुषा तेजसा यज्ञमस्मदीयं यागं रक्ष। पालय। किञ्च हे प्रचेतः प्रकृष्टज्ञानाग्ने प्राञ्चं प्राञ्चितारं यज्ञं वसुभ्यो वसूनामर्थाय प्रणय। प्रकर्षॆण नय। किञ्च हे नृचक्षो नृणां द्रष्टरग्ने रक्षाम्सि हिंस्रं हिंसनशीलमभि शोशुचानमभिप्रदीप्तं त्वा त्वां यातुधाना राक्षसा मा दभन्। हिंसिषुः॥९॥
नृ॒चक्षा॒ रक्ष॒ः परि᳚ पश्य वि॒क्षु तस्य॒ त्रीणि॒ प्रति᳚ शृणी॒ह्यग्रा᳚ ।
तस्या᳚ग्ने पृ॒ष्टीर्हर᳚सा शृणीहि त्रे॒धा मूलं᳚ यातु॒धान᳚स्य वृश्च ॥
नृ॒॑चक्षाः᳚ । रक्षः᳚ । परि᳚ । प॒श्य॒ । वि॒क्षु । तस्य᳚ । त्रीणि᳚ । प्रति᳚ । शृ॒णी॒हि॒ । अग्रा᳚ ।
तस्य᳚ । अ॒ग्ने॒ । पृ॒ष्टीः । हर᳚सा । शृ॒णी॒हि॒ । त्रे॒धा । मूल᳚म् । या॒तु॒॑धान᳚स्य । वृ॒श्च॒ ॥
हे अग्ने नृचक्षा नृणां द्रष्टा त्वं विक्षु मनुष्येषु हिंसकत्वेन वर्तमानं रक्षो राक्षसं परि पश्य। सर्वतोऽवलोकय। अवलोक्य च तस्य रक्षसस्त्रीण्यग्राग्राणि शिरांसि प्रति शृणीहि। छिन्ध्धीत्यर्थः। ततस्तस्य रक्षसः पृष्टीः पार्श्वस्थान्राक्षसानपि हरसा स्वकीयेन तेजसा शृणीहि। मारय। एवं त्रेधा यातुधानस्य तस्य राक्षसस्य मूलं पादं वृश्च। छिन्द्धि॥१०॥
त्रिर्या᳚तु॒धान॒ः प्रसि᳚तिं त एत्वृ॒तं यो अ᳚ग्ने॒ अनृ᳚तेन॒ हन्ति᳚ ।
तम॒र्चिषा᳚ स्फू॒र्जय᳚ञ्जातवेदः सम॒क्षमे᳚नं गृण॒ते नि वृ᳚ङ्धि ॥
त्रिः । या॒तु॒॑धानः᳚ । प्र॑सि᳚तिम् । ते॒ । ए॒तु॒ । ऋ॒तम् । यः । अ॒ग्ने॒ । अनृ᳚तेन । हन्ति᳚ ।
तम् । अ॒र्चिषा᳚ । स्फू॒र्जय᳚न् । जा॒त॒॑वे॒दः॒ । स॒म्॑अ॒क्षम् । ए॒न॒म् । गृ॒ण॒ते । नि । वृ॒ङ्धि॒ ॥
हे जातवेदो जातप्रज्ञाग्ने ते त्वदीयं प्रसितिं ज्वालाप्रबन्धनं यतुधानो राक्षसस्त्रिस्त्रीन्वारानेतु। गच्छतु। त्रिर्बद्धं यत्तत्सुबद्धं भवति हि। किञ्च यो यातुधानो राक्षस ऋतं सत्यमनृतेनासत्येन हन्ति हिनस्ति तं यातुधानमर्चिषा स्वकीयेन तेजसा स्फूर्जयन्निष्पिषन्। स्फूर्जतिरत्र नोष्पेषणकर्मा। एनं यातुधानं गृणते स्तोत्रं कुर्वते मह्यं समक्षम् प्रत्यक्षं नि वृङ्धि। निगृह्य वर्जय वृकेण॥११॥
तद᳚ग्ने॒ चक्षु॒ः प्रति᳚ धेहि रे॒भे श᳚फा॒रुजं॒ येन॒ पश्य᳚सि यातु॒धान᳚म् ।
अ॒थ॒र्व॒वज्ज्योति᳚षा॒ दैव्ये᳚न स॒त्यं धूर्व᳚न्तम॒चितं॒ न्यो᳚ष ॥
तत् । अ॒ग्ने॒ । चक्षुः᳚ । प्रति᳚ । धे॒हि॒ । रे॒भे । श॒फ॒॑आ॒रुज᳚म् । येन᳚ । पश्य᳚सि । या॒तु॒॑धान᳚म् ।
अ॒थ॒र्व॒॑वत् । ज्योति᳚षा । दैव्ये᳚न । स॒त्यम् । धूर्व᳚न्तम् । अ॒चित᳚म् । नि । ओ॒ष॒ ॥
हे अग्ने त्वं रेभे शब्दायमाने राक्षसे तच्चक्षुस्तॆजः प्रति धेहि प्रक्षिपयेन चक्षुषा शफारुजं शफाभ्यामारुजन्तं शफसदृशैर्नखैः साधूनामाभिमुख्येन भञ्जकं यातुधानं राक्षसं पश्यसि। किञ्च सत्यं धुर्वन्तमसत्येन हिंसन्तमचितमज्ञानं दैव्येन दिवि भवेन ज्योतिषा तेजसाथर्वन्न्योष। नितरां दह। दध्यङ्जथर्वा रक्षसाम् हन्तेति प्रागुक्तम्॥१२॥
यद᳚ग्ने अ॒द्य मि᳚थु॒ना शपा᳚तो॒ यद्वा॒चस्तृ॒ष्टं ज॒नय᳚न्त रे॒भाः ।
म॒न्योर्मन᳚सः शर॒व्या॒३॒᳚ जाय᳚ते॒ या तया᳚ विध्य॒ हृद᳚ये यातु॒धाना᳚न् ॥
यत् । अ॒ग्ने॒ । अ॒द्य । मि॒थु॒ना । शपा᳚तः । यत् । वा॒चः । तृ॒ष्टम् । ज॒नय᳚न्त । रे॒भाः ।
म॒न्योः । मन᳚सः । श॒र॒व्या᳚ । जाय᳚ते । या । तया᳚ । वि॒ध्य॒ । हृद᳚ये । या॒तु॒॑धाना᳚न् ॥
हे अग्ने यद्यदाद्यास्मिन्नहनि मिथुना स्त्रीपुंसौ शपातः परस्परमाक्रोशतः। यद्यदा रेभाः स्तोतारो चाचः सम्बन्धि तृष्टं कटुकं परस्पराक्रोशलक्षमधरं वा जनयन्त। परस्परमाक्रोशन्तीत्यर्थः। तदा मन्योर्दीप्तस्य क्रुद्धस्य वा तव। तथा च यास्कः। मन्युर्मन्यतेर्दीप्तिकर्मणः क्रोधकर्मणो वधकर्मणोवा। नि. १०-२९। इति। मनसः सकाशाद्या शरव्येषुर्जायते तया शरव्यया यातुधानान्राक्षसान्हृदये विध्य। ताडय। मारयेत्यर्थः॥१३॥
परा᳚ शृणीहि॒ तप᳚सा यातु॒धाना॒न्परा᳚ग्ने॒ रक्षो॒ हर᳚सा शृणीहि ।
परा॒र्चिषा॒ मूर᳚देवाञ्छृणीहि॒ परा᳚सु॒तृपो᳚ अ॒भि शोशु᳚चानः ॥
परा᳚ । शृ॒णी॒हि॒ । तप᳚सा । या॒तु॒॑धाना᳚न् । परा᳚ । अ॒ग्ने॒ । रक्षः᳚ । हर᳚सा । शृ॒णी॒हि॒ ।
परा᳚ । अ॒र्चिषा᳚ । मूर᳚॑देवान् । शृ॒णी॒हि॒ । परा᳚ । अ॒सु॒॑तृपः᳚ । अ॒भि । शोशु᳚चानः ॥
हे अग्ने यातुधानांस्तपसा तापेन परा शृणीहि। मारय। किञ्च रक्शॊ हरसा त्वदीयेनौष्ण्येन परा शृणीहि। किञ्च मूरदेवान्मारव्यापारान्राक्षसानर्चिषा स्वकीयेन तेजसा परा शृणीहि। अपि चासुतृपो मनुष्याणामुसुभिस्तृप्ता ये तानपि परा शृणीहीत्यर्थः॥१४॥
परा॒द्य दे॒वा वृ᳚जि॒नं शृ᳚णन्तु प्र॒त्यगे᳚नं श॒पथा᳚ यन्तु तृ॒ष्टाः ।
वा॒चास्ते᳚नं॒ शर᳚व ऋच्छन्तु॒ मर्म॒न्विश्व᳚स्यैतु॒ प्रसि᳚तिं यातु॒धानः᳚ ॥
परा᳚ । अ॒द्य । दे॒वाः । वृ॒जि॒नम् । शृ॒ण॒न्तु॒ । प्र॒त्यक् । ए॒न॒म् । श॒पथाः᳚ । य॒न्तु॒ । तृ॒ष्टाः ।
वा॒चा॑स्ते᳚नम् । शर᳚वः । ऋ॒च्छ॒न्तु॒ । मर्म᳚न् । विश्व᳚स्य । ए॒तु॒ । प्र॑सि᳚तिम् । या॒तु॒॑धानः᳚ ॥
अद्यास्मिन्नहनि देवा अग्निपुरोगाः सर्वे देवा वृजिनं प्राणिनां प्राणैर्वर्जितारं यातुधानं परा शृणन्तु। अथैनमायान्तं राक्षसं तृष्टाः कटुका अस्माभिरुक्ताः शपथाः प्रत्यग्यन्तु। किञ्च वाचास्तेनमनृतवचनमेनं यातुधानं शरवः शरा मर्मन् मर्मण्यृच्छन्तु। गच्छन्तु। विश्वस्य व्याप्तस्याग्नेः प्रसितिं चालम्। तथा च यास्कः। प्रसितिः प्रसयनात्तन्तुर्वा जालं वा। नि. ६-१२। इति। जालं यातुधानो राक्षस एतु। गच्छतु॥१५॥
यः पौरु᳚षेयेण क्र॒विषा᳚ सम॒ङ्क्ते यो अश्व्ये᳚न प॒शुना᳚ यातु॒धानः᳚ ।
यो अ॒घ्न्याया॒ भर᳚ति क्षी॒रम᳚ग्ने॒ तेषां᳚ शी॒र्षाणि॒ हर॒सापि᳚ वृश्च ॥
यः । पौरु᳚षेयेण । क्र॒विषा᳚ । स॒म्॑अ॒ङ्क्ते । यः । अश्व्ये᳚न । प॒शुना᳚ । या॒तु॒॑धानः᳚ ।
यः । अ॒घ्न्यायाः᳚ । भर᳚ति । क्षी॒रम् । अ॒ग्ने॒ । तेषा᳚म् । शी॒र्षाणि᳚ । हर᳚सा । अपि᳚ । वृ॒श्च॒ ॥
यो यातुधानो राक्षसः पौरुषेयेण पुरुषसम्बन्धिना क्रविषा मांसेन समङ्क्ते आत्मानं सङ्गमयति। याश्चाश्व्येनाश्वसमूहेन। तदीयेन मांसेनेत्यर्थः। आत्मानं सङ्गमयति। यो वा यातुधानोऽन्येन पशुनात्मानं सङ्गमयति। यो वा यातुधानोऽघ्न्याया गोः क्षीरं भरति हरति। हे अग्ने त्वं तेषां सर्वेषामपि राक्षसानां शीर्षाणि शिरांसि हरसा त्वदीयेन तेजसा वृश्च। छिन्ध्धि॥१६॥
सं॒व॒त्स॒रीणं॒ पय᳚ उ॒स्रिया᳚या॒स्तस्य॒ माशी᳚द्यातु॒धानो᳚ नृचक्षः ।
पी॒यूष᳚मग्ने यत॒मस्तितृ᳚प्सा॒त्तं प्र॒त्यञ्च᳚म॒र्चिषा᳚ विध्य॒ मर्म᳚न् ॥
सं॒व॒त्स॒रीण᳚म् । पयः᳚ । उ॒स्रिया᳚याः । तस्य᳚ । मा । अ॒शी॒त् । या॒तु॒॑धानः᳚ । नृ॒॑च॒क्षः॒ ।
पी॒यूष᳚म् । अ॒ग्ने॒ । य॒त॒मः । तितृ᳚प्सात् । तम् । प्र॒त्यञ्च᳚म् । अ॒र्चिषा᳚ । वि॒ध्य॒ । मर्म᳚न् ॥
हे नृचक्षो नृणां द्रष्टरग्ने उस्रियायाः गोः। उस्रियाहीति गोनामसु पाठात्। संवत्सरीणं संवत्सरेण भवं यत्पयोऽस्ति यातुधानो राक्षसस्तसमाशीत्। तत्पयो मा भक्षयतु। किञ्च यतमो यो राक्षसः पीयूशं पीयूषेण। विभक्तिव्यत्ययः। अस्मदीयाया गोः पयसा तितृप्सात् आत्मानं तर्पयितुमिच्छति तं प्रत्यञ्चं युद्धायात्मानं प्रतिगतं राक्षसं मर्मन् मर्मणि प्राणवियोगस्थानेऽर्चिषा स्वकीयेन तेजसा विध्य। ताडय। मारयेत्यर्थः॥१७॥
वि॒षं गवां᳚ यातु॒धाना᳚ः पिब॒न्त्वा वृ᳚श्च्यन्ता॒मदि᳚तये दु॒रेवा᳚ः ।
परै᳚नान्दे॒वः स᳚वि॒ता द᳚दातु॒ परा᳚ भा॒गमोष᳚धीनां जयन्ताम् ॥
वि॒षम् । गवा᳚म् । या॒तु॒॑धानाः᳚ । पि॒ब॒न्तु॒ । आ । वृ॒श्च्य॒न्ता॒म् । अदि᳚तये । दुः॒॑एवाः᳚ ।
परा᳚ । ए॒ना॒न् । दे॒वः । स॒वि॒ता । द॒दा॒तु॒ । परा᳚ । भा॒गम् । ओष᳚धीनाम् । ज॒य॒न्ता॒म् ॥
हे अग्ने यातुधाना राक्षसा गवां पशूनां गृहे स्थितं विषं पिबन्तु। किञ्चादितयेऽदित्यर्थं दुरेवा दुस्तरा यातुधाना आ वृष्च्यन्ताम् । त्वदीयैरायुधैराच्छित्यन्ताम्। किञ्च सविता देव एनान्राक्षसान्परा ददातु। सिम्हेभ्यः प्रयच्छतु। अपि च तेऽमी राक्षसा ओषधीनां स्वभुतं भागं भजनीयमन्नं परा जयन्ताम्। लभन्तामित्यर्थः॥१८॥
स॒नाद᳚ग्ने मृणसि यातु॒धाना॒न्न त्वा॒ रक्षां᳚सि॒ पृत᳚नासु जिग्युः ।
अनु᳚ दह स॒हमू᳚रान्क्र॒व्यादो॒ मा ते᳚ हे॒त्या मु᳚क्षत॒ दैव्या᳚याः ॥
स॒नात् । अ॒ग्ने॒ । मृ॒ण॒सि॒ । या॒तु॒॑धाना᳚न् । न । त्वा॒ । रक्षां᳚सि । पृत᳚नासु । जि॒ग्युः॒ ।
अनु᳚ । द॒ह॒ । स॒ह॑मू᳚रान् । क्र॒व्य॒॑अदः᳚ । मा । ते॒ । हे॒त्याः । मु॒क्ष॒त॒ । दैव्या᳚याः ॥
हे अग्ने त्वं सनाच्चिरादेवारभ्य यातुधानान्राक्षसान्मृनसि। बाधसे। तथापि त्वा त्वां पृतनासु सङ्ग्रामेषु रक्षाम्सि राक्शसा न जिग्युः। नाजयन्। किञ्च स त्वमधुनान्वनुक्रमेण समूरान् मूलेन सहितान् मारकव्यापारेण युक्तान् क्रव्यादो मांसभक्षकान्राक्षसान्दह। तेजसा भस्मीकुरु। किञ्च तव सम्बन्धिनो दैव्याया दैव्याद्धेत्या आयुधात्ते यातुधाना मा मुक्षत। मुइक्ता मा भूवन्॥१९॥
त्वं नो᳚ अग्ने अध॒रादुद᳚क्ता॒त्त्वं प॒श्चादु॒त र᳚क्षा पु॒रस्ता᳚त् ।
प्रति॒ ते ते᳚ अ॒जरा᳚स॒स्तपि᳚ष्ठा अ॒घशं᳚सं॒ शोशु᳚चतो दहन्तु ॥
त्वम् । नः॒ । अ॒ग्ने॒ । अ॒ध॒रात् । उद᳚क्तात् । त्वम् । प॒श्चात् । उ॒त । र॒क्ष॒ । पु॒रस्ता᳚त् ।
प्रति᳚ । ते । ते॒ । अ॒जरा᳚सः । तपि᳚ष्ठाः । अ॒घ॑शं᳚सम् । शोशु᳚चतः । द॒ह॒न्तु॒ ॥
हे अग्ने त्वं नोऽस्मानधराद्दक्षिणतः। उत्तरादिदिक्समभिव्याहारादधरशब्दोऽत्र दक्षिणदिक्पर इति विज्ञायते। उदक्तादुत्तरतश्च रक्ष। पाहि। उतापि च हे अग्ने त्वं पश्चात्पश्चिमतः पुरस्तात्पूर्वतश्च नोऽस्मान्रक्ष। चतसृषु दिक्ष्ववस्थितेभ्यो राक्षसेभ्योऽस्मान्पाहीत्यर्थः। किञ्च ते तव सम्बन्धिनस्ते तपिष्था अतिशयेन तप्यमाना अजरासो जरावर्जिताः शोशुचतो ज्वलन्तः सन्तो रश्मयोऽघशंसं पापशंसकं राक्षसं प्रति दहन्तु। भस्मीकुर्वन्तु॥२०॥
प॒श्चात्पु॒रस्ता᳚दध॒रादुद᳚क्तात्क॒विः काव्ये᳚न॒ परि᳚ पाहि राजन् ।
सखे॒ सखा᳚यम॒जरो᳚ जरि॒म्णे॑ग्ने॒ मर्ता{4}॒ अम᳚र्त्य॒स्त्वं नः᳚ ॥
प॒श्चात् । पु॒रस्ता᳚त् । अ॒ध॒रात् । उद᳚क्तात् । क॒विः । काव्ये᳚न । परि᳚ । पा॒हि॒ । रा॒ज॒न् ।
सखे᳚ । सखा᳚यम् । अ॒जरः᳚ । ज॒रि॒म्णे । अग्ने᳚ । मर्ता᳚न् । अम᳚र्त्यः । त्वम् । नः॒ ॥
हे राजन्दीप्ताग्ने कविः क्रान्तदर्शनस्त्वं काव्येन कविकर्मणा पश्चात् पश्चिमतः पुरस्तात्पूर्वतोऽधराद्दक्षिणतश्चोदक्तादुत्तरतश्चास्मान्परि पाहि। परितो रक्ष। किञ्च हे सखे मित्रभूताग्ने अजरो जरारहितस्त्वं मां सखायं जरिम्णे जरायै कुरु। त्वत्प्रसादादहं चिरं जीवामीत्यर्थः। एतदेव दर्शयति। हे अग्ने अमर्त्यो मरणधर्मरहितस्त्वं मर्तान्मरणधर्मवतो नोऽस्माञ्जरिम्णे जरायै कुर्विति शेषः॥२१॥
परि᳚ त्वाग्ने॒ पुरं᳚ व॒यं विप्रं᳚ सहस्य धीमहि ।
धृ॒षद्व᳚र्णं दि॒वेदि᳚वे ह॒न्तारं᳚ भङ्गु॒राव᳚ताम् ॥
परि᳚ । त्वा॒ । अ॒ग्ने॒ । पुर᳚म् । व॒यम् । विप्र᳚म् । स॒ह॒स्य॒ । धी॒म॒हि॒ ।
धृ॒षत्॑व᳚र्णम् । दि॒वे॑दि᳚वे । ह॒न्तार᳚म् । भ॒ङ्गु॒र॑व᳚ताम् ॥
हे सहस्य सहसे हित सहसो जात वागेन् पुरं पूरकं विप्रं मेधाविनं धृषद्वर्णं धर्षकरूपं भङ्गुरावतां भङ्गुरकर्मयुक्तानां रक्षसां दिवेदिवे प्रत्यहं हन्तारं हिंसितारं त्वा त्वां वयं पायुनामधेया भारद्वाजा रक्षसां हननाय परि धीमहि॥२२॥
वि॒षेण᳚ भङ्गु॒राव᳚त॒ः प्रति᳚ ष्म र॒क्षसो᳚ दह ।
अग्ने᳚ ति॒ग्मेन᳚ शो॒चिषा॒ तपु᳚रग्राभिरृ॒ष्टिभि᳚ः ॥
वि॒षेण᳚ । भ॒ङ्गु॒र॑व᳚तः । प्रति᳚ । स्म॒ । र॒क्षसः᳚ । द॒ह॒ ।
अग्ने᳚ । ति॒ग्मेन᳚ । शो॒चिषा᳚ । तपुः᳚॑अग्राभिः । ऋ॒ष्टि॑भिः᳚ ॥
हे अग्ने त्वं भङ्गुरावतो भञ्जनकर्मयुक्तान्रक्षसो राक्षसान्विषेण व्याप्तेन तिग्मेन तीक्ष्णेन शोचिषा तेजसा प्रति दह। भस्मीकुरु। तथा तपुरग्राभिस्तपनशीलाग्राभिरृष्टिभिः। ऋष्टय आयुधविशेषाः। ताभिरपि प्रति दह॥२३॥
प्रत्य᳚ग्ने मिथु॒ना द᳚ह यातु॒धाना᳚ किमी॒दिना᳚ ।
सं त्वा᳚ शिशामि जागृ॒ह्यद᳚ब्धं विप्र॒ मन्म᳚भिः ॥
प्रति᳚ । अ॒ग्ने॒ । मि॒थु॒ना । द॒ह॒ । या॒तु॒॑धाना᳚ । कि॒मी॒दिना᳚ ।
सम् । त्वा॒ । शि॒शा॒मि॒ । जा॒गृ॒हि । अद᳚ब्धम् । वि॒प्र॒ । मन्म᳚॑भिः ॥
हे अग्ने त्वं मिथुना मिथुनभूतानि किमीदिना। किमिदानीमिति ये चरन्ति ते किमीदिनः। तान्। तथा च यास्कः। किमीदिने किमिदानीमिति चरते किमिदं किमिदमिति वा। नि. ६-११। इति। यातुधाना यातुधानान्राक्षसान्प्रति दह। किञ्च हे विप्र मेधाविन्नग्ने अदब्धं केनाप्यहिंसितं त्वा त्वां मन्मभिः स्तुतिभिरहं सं शिशामि। स्त्ॐईत्यर्थः। अतस्त्वं जागृहि। निद्रां मा कुरु। बुध्यस्वेत्यर्थः।।२४॥
प्रत्य᳚ग्ने॒ हर᳚सा॒ हरः᳚ शृणी॒हि वि॒श्वत॒ः प्रति᳚ ।
या॒तु॒धान᳚स्य र॒क्षसो॒ बलं॒ वि रु᳚ज वी॒र्य᳚म् ॥
प्रति᳚ । अ॒ग्ने॒ । हर᳚सा । हरः᳚ । शृ॒णी॒हि । वि॒श्वतः᳚ । प्रति᳚ ।
या॒तु॒॑धान᳚स्य । र॒क्षसः᳚ । बल᳚म् । वि । रु॒ज॒ । वी॒र्य᳚म् ॥
हे अग्ने हरसा त्वदीयेन तेजसा। तथा च यास्कः। हरो हरतेर्ज्योतिर्हर उच्यते नि. ४-१९। इति। यातुधानस्य राक्षसस्य हरो हरणशीलं बलं प्रति शृणीहि। नाशयेत्यर्थः। तथा रक्षसो राक्षसस्य वीर्यं च वि रुज। भञ्जय॥२६॥