श्रवणम्

10.87.16
यः पौरु᳚षेयेण क्र॒विषा᳚ सम॒ङ्क्ते यो अश्व्ये᳚न प॒शुना᳚ यातु॒धानः᳚ ।
यो अ॒घ्न्याया॒ भर᳚ति क्षी॒रम᳚ग्ने॒ तेषां᳚ शी॒र्षाणि॒ हर॒सापि᳚ वृश्च ॥
▶ पदपाठः (Word-by-word)
यः । पौरु᳚षेयेण । क्र॒विषा᳚ । स॒म्॑अ॒ङ्क्ते । यः । अश्व्ये᳚न । प॒शुना᳚ । या॒तु॒॑धानः᳚ ।
यः । अ॒घ्न्यायाः᳚ । भर᳚ति । क्षी॒रम् । अ॒ग्ने॒ । तेषा᳚म् । शी॒र्षाणि᳚ । हर᳚सा । अपि᳚ । वृ॒श्च॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यो यातुधानो राक्षसः पौरुषेयेण पुरुषसम्बन्धिना क्रविषा मांसेन समङ्क्ते आत्मानं सङ्गमयति। याश्चाश्व्येनाश्वसमूहेन। तदीयेन मांसेनेत्यर्थः। आत्मानं सङ्गमयति। यो वा यातुधानोऽन्येन पशुनात्मानं सङ्गमयति। यो वा यातुधानोऽघ्न्याया गोः क्षीरं भरति हरति। हे अग्ने त्वं तेषां सर्वेषामपि राक्षसानां शीर्षाणि शिरांसि हरसा त्वदीयेन तेजसा वृश्च। छिन्ध्धि॥१६॥