श्रवणम्

10.87.20
त्वं नो᳚ अग्ने अध॒रादुद᳚क्ता॒त्त्वं प॒श्चादु॒त र᳚क्षा पु॒रस्ता᳚त् ।
प्रति॒ ते ते᳚ अ॒जरा᳚स॒स्तपि᳚ष्ठा अ॒घशं᳚सं॒ शोशु᳚चतो दहन्तु ॥
▶ पदपाठः (Word-by-word)
त्वम् । नः॒ । अ॒ग्ने॒ । अ॒ध॒रात् । उद᳚क्तात् । त्वम् । प॒श्चात् । उ॒त । र॒क्ष॒ । पु॒रस्ता᳚त् ।
प्रति᳚ । ते । ते॒ । अ॒जरा᳚सः । तपि᳚ष्ठाः । अ॒घ॑शं᳚सम् । शोशु᳚चतः । द॒ह॒न्तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वं नोऽस्मानधराद्दक्षिणतः। उत्तरादिदिक्समभिव्याहारादधरशब्दोऽत्र दक्षिणदिक्पर इति विज्ञायते। उदक्तादुत्तरतश्च रक्ष। पाहि। उतापि च हे अग्ने त्वं पश्चात्पश्चिमतः पुरस्तात्पूर्वतश्च नोऽस्मान्रक्ष। चतसृषु दिक्ष्ववस्थितेभ्यो राक्षसेभ्योऽस्मान्पाहीत्यर्थः। किञ्च ते तव सम्बन्धिनस्ते तपिष्था अतिशयेन तप्यमाना अजरासो जरावर्जिताः शोशुचतो ज्वलन्तः सन्तो रश्मयोऽघशंसं पापशंसकं राक्षसं प्रति दहन्तु। भस्मीकुर्वन्तु॥२०॥