श्र॒द्धां भग᳚स्य मू॒र्धनि॒ वच॒सा वे᳚दयामसि ॥
पदपाठः (Word-by-word)
श्र॒द्धाम् । भग᳚स्य । मू॒र्धनि᳚ । वच᳚सा । आ । वे॒द॒या॒म॒सि॒ ॥
सायणभाष्यम् (Sayana Commentary)
श्रद्धयेति पञ्चर्चं त्रयोविंशं सूक्तमानुष्टुभम् श्रदहादेवत्यम् । कामगोत्रजा श्रद्धा नामर्षिका। तथा चानुक्रम्यते। श्रद्धया श्रद्धा कामायनी श्राद्धमानुष्टुभं त्विति। लैङ्गिको विनियोगः॥
पुरुषगतोऽभिलाषविशेषः श्रद्धा। तया श्रद्धयाग्निर्गार्हपत्यादिः समिध्यते। सन्दीप्यते। यदा हि पुरुषे श्रद्धाग्निगोचर आदरातिशयो जायते तदैष पुरुषोऽग्नीन्प्रज्वालयति नान्यदा। श्रद्धयैव हविः पुरोडाशादिहविश्च हूयते। आहवनीये प्रक्षिप्यते। यद्वा। आ सूक्तस्य द्रष्ट्या श्रद्धाख्ययाग्निः समिध्यते। श्रद्धामुक्तलक्शणायाः श्रद्धाया अभिमानिदेवतां भगस्य भजनीयस्य धनस्य मूर्धनि प्रधानभूते स्थानेऽवस्थितां वचसा वचनेन स्तोत्रेणा वेदयामसि। अभितः प्रख्यापयामः। इदन्तो मसिः॥१॥