श्रवणम्

10.151.4 समानपद
श्र॒द्धां दे॒वा यज᳚माना वा॒युगो᳚पा॒ उपा᳚सते ।
श्र॒द्धां हृ᳚द॒य्य१॒᳚याकू᳚त्या श्र॒द्धया᳚ विन्दते॒ वसु᳚ ॥
▶ पदपाठः (Word-by-word)
श्र॒द्धाम् । दे॒वाः । यज᳚मानाः । वा॒यु॑गो᳚पाः । उप᳚ । आ॒स॒ते॒ ।
श्र॒द्धाम् । हृ॒द॒य्य᳚या । आ॑कू᳚त्या । श्र॒द्धया᳚ । वि॒न्द॒ते॒ । वसु᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवा यजमाना मनुष्याश्च वायुगोपा वायुर्गोपा रक्शितायेशां ते तादृशाः सन्तः श्रद्धां देवीमुपासते। प्रार्थयन्ते। ह्रुदय्यया। हृदये भवा हृदय्या। तधाविधयाकूत्या सङ्कल्परूपया क्रियया श्रद्धामेव परिचरन्ति सर्वे जनाः। कुत इत्यत आह। यतः कारणाच्छ्रद्धया हेतुभुतया वसु धनं विन्दते लभते श्रद्धावाञ्जनः। तत इत्यर्थः॥४॥