श्रवणम्

10.151.5
श्र॒द्धां प्रा॒तर्ह᳚वामहे श्र॒द्धां म॒ध्यंदि᳚नं॒ परि᳚ ।
श्र॒द्धां सूर्य᳚स्य नि॒म्रुचि॒ श्रद्धे॒ श्रद्धा᳚पये॒ह नः᳚ ॥
▶ पदपाठः (Word-by-word)
श्र॒द्धाम् । प्रा॒तः । ह॒वा॒म॒हे॒ । श्र॒द्धाम् । म॒ध्यन्दि᳚नम् । परि᳚ ।
श्र॒द्धाम् । सूर्य᳚स्य । नि॒॑म्रुचि᳚ । श्रद्धे᳚ । श्रत् । धा॒प॒य॒ । इ॒ह । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

श्रद्धां देवीं प्रातः पूर्वाह्णे हवामहे । तथा मध्यन्दिनं परि। लक्शणे परेः कर्मप्रवचनीयत्वम् । मध्यन्दिनं परिलक्ष्य। मध्यन्दिन इत्यर्थः। मध्याह्नेऽपि तां श्रद्धामह्वयामहे। सूर्यस्य सर्वस्य प्रेरकस्यादित्यस्य निम्रुच्यस्तमयवेलायां सायंसमयेऽपि तामेव श्रद्धामाह्वयामहे। ईद्रुग्रूपे हे श्रद्धे नोऽस्मानिह लोके कर्मणि वा श्रद्धापय। श्रद्धावतः कुरु॥५॥