श्रवणम्

10.151.2
प्रि॒यं श्र᳚द्धे॒ दद᳚तः प्रि॒यं श्र᳚द्धे॒ दिदा᳚सतः ।
प्रि॒यं भो॒जेषु॒ यज्व᳚स्वि॒दं म᳚ उदि॒तं कृ᳚धि ॥
▶ पदपाठः (Word-by-word)
प्रि॒यम् । श्र॒द्धे॒ । दद᳚तः । प्रि॒यम् । श्र॒द्धे॒ । दिदा᳚सतः ।
प्रि॒यम् । भो॒जेषु᳚ । यज्व᳚॑सु । इ॒दम् । मे॒ । उ॒दि॒तम् । कृ॒धि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे श्रद्धे ददतश्चरुपुरोडाशादीनि प्रयच्छतो यजमानस्य प्रियमभीष्टफलं कुरु। दिदासतो दातुमिच्छतश्च हे श्रद्धे प्रियं कुरु। मे मम सम्बन्धिषु भोजेषु भोक्तृषु भोगार्थिषु यज्वसु कृतयज्ञेषु जनेशु चेदमुदितमुक्तम् प्रियं कृधि। कुरु॥२॥