यथा᳚ दे॒वा असु᳚रेषु श्र॒द्धामु॒ग्रेषु᳚ चक्रि॒रे ।
ए॒वं भो॒जेषु॒ यज्व᳚स्व॒स्माक᳚मुदि॒तं कृ᳚धि ॥
ए॒वं भो॒जेषु॒ यज्व᳚स्व॒स्माक᳚मुदि॒तं कृ᳚धि ॥
पदपाठः (Word-by-word)
यथा᳚ । दे॒वाः । असु᳚रेषु । श्र॒द्धाम् । उ॒ग्रेषु᳚ । च॒क्रि॒रे ।
ए॒वम् । भो॒जेषु᳚ । यज्व᳚॑सु । अ॒स्माक᳚म् । उ॒दि॒तम् । कृ॒धि॒ ॥
ए॒वम् । भो॒जेषु᳚ । यज्व᳚॑सु । अ॒स्माक᳚म् । उ॒दि॒तम् । कृ॒धि॒ ॥
सायणभाष्यम् (Sayana Commentary)
देवा इन्द्रादयोऽसुरेषूद्गूर्णबलेशु यथा स्रद्धां चक्रिरे अवश्यमिमे हन्तव्या इत्यादरातिशयं कृतवन्तः एवं श्रद्धावत्सुभोजेषु भोक्तृषु भोगार्थिषु यज्वसु यष्टृष्वस्माकमस्मत्सम्बन्धिषु तेषूदितं तैरुक्तं प्रार्थितं फलजातं कृधि। कुरु॥३॥