दशमं मण्डलम् - सूक्तम् 185

3 ऋचः

ऋषिः: सत्यधृतिर्वारुणिः देवता: आदित्यः(स्वस्त्ययनं) छन्दः: गायत्री

सूक्तम् 10.185 - सम्पूर्णम्

1 / 3
ऋक्: 10.185.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (3)
10.185.1
महि᳚ त्री॒णामवो᳚॑स्तु द्यु॒क्षं मि॒त्रस्या᳚र्य॒म्णः ।
दु॒रा॒धर्षं॒ वरु᳚णस्य ॥
▶ पदपाठः (Word-by-word)
महि᳚ । त्री॒णाम् । अवः᳚ । अ॒स्तु॒ । द्यु॒क्षम् । मि॒त्रस्य᳚ । अ॒र्य॒म्णः ।
दुः॒॑आ॒धर्ष᳚म् । वरु᳚णस्य ॥
▶ सायणभाष्यम् (Sayana Commentary)

महीति तृचं चतुस्त्रिंशं सूक्तं वरुणपुत्रस्य सत्यधृतेरार्षं गायत्रमादित्यदेवताकम्। तथा चानुक्रान्तम्। महि सत्यधृतिर्वारुणिरादित्यं स्वस्त्ययनं गायत्रं वा इति। धनलिप्सया प्रसन्तं शिष्यमाचार्योऽनेन सूक्तेनाभिमन्त्रयते। सूत्र्यते हि। महि त्रीणामित्यनुमन्त्रैवमतिसृष्टस्य न कुतश्चिद्भयं भवतीति विज्ञायते। आ. गृ. १०-७-८। इति॥

त्रीणां त्रयाणां मित्रस्यार्यम्णो वरुणस्य च द्युक्षं दीप्तं अत एव दुराधर्षमन्यैर्धर्षितुं बाधितुमशक्यं महि महदवो रक्षणमस्माकमस्तु। त्रीणामित्यपि छन्दसि दृश्यत इति वचनात्। का. ७-१-५३-१। त्रयादेशाभावः। नामन्यतरस्यामिति नाम उदात्तत्वम्॥१॥

10.185.2
न॒हि तेषा᳚म॒मा च॒न नाध्व᳚सु वार॒णेषु᳚ ।
ईशे᳚ रि॒पुर॒घशं᳚सः ॥
▶ पदपाठः (Word-by-word)
न॒हि । तेषा᳚म् । अ॒मा । च॒न । न । अध्व᳚॑सु । वा॒र॒णेषु᳚ ।
ईशे᳚ । रि॒पुः । अ॒घ॑शं᳚सः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अमेति तृहनाम। अम चन गृहेष्वपि तेषां वरुनमित्रार्यम्णां तदनुगृहीतानां स्तोतॄणां वाघशंसोऽघमनर्थमाशंसमानो रिपुः शत्रुर्न हीशे। न खलु हिंसितुमीष्टे। लोपस्त आत्मनेपदेष्विति तलोपः। अनुदात्तेत्त्वाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः शिष्यते। तथाध्वसु मार्गेषु वारणेषु यत्र पुरुषा निवार्यन्ते तेषु च स्थानेषु शत्रुर्निवारयितुं नेष्टे॥२॥

10.185.3
यस्मै᳚ पु॒त्रासो॒ अदि᳚ते॒ः प्र जी॒वसे॒ मर्त्या᳚य ।
ज्योति॒र्यच्छ॒न्त्यज᳚स्रम् ॥
▶ पदपाठः (Word-by-word)
यस्मै᳚ । पु॒त्रासः᳚ । अदि᳚तेः । प्र । जी॒वसे᳚ । मर्त्या᳚य ।
ज्योतिः᳚ । यच्छ᳚न्ति । अज᳚स्रम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अदितेरदीनाया देवमातुः पुत्रासः पुत्रा मित्रादयो यस्मै मर्त्याय मनुष्याय स्तोत्रेऽजस्रमविच्छिन्नं ज्योतिस्तेजो जीवसे जीवितुं प्रयच्छन्ति तस्य शत्रुर्नेश्वर इत्यर्थः॥३॥