प्रा॒त॒र्यावा᳚णं वि॒भ्वं᳚ वि॒शेवि᳚शे॒ वस्तो᳚र्वस्तो॒र्वह᳚मानं धि॒या शमि᳚ ॥
पदपाठः (Word-by-word)
प्रा॒तः॒॑यावा᳚नम् । वि॒॑भ्व᳚म् । वि॒शे॑वि᳚शे । वस्तोः᳚॑वस्तोः । वह᳚मानम् । धि॒या । शमि᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे नरा कर्मणां नेतारावश्विनौ वां युवयोः संबंधिनं द्युमंतं दीप्तिमंतं प्रातर्यावाणं यज्ञं प्रति विलंबेन प्रातः काले गंतारं विश्वं विभुं व्यापिनं विशेविशे सर्वेषु मनुष्येषु वस्तो- र्वस्तोः अन्वहं वहमानं धनं प्रापयंतं यान्तं गच्छंतं रथं कुह कस्मिन् देशे कोह कःखलु यजमानः शामि यज्ञरूपे कर्मणि धिया स्तुतिरूपेण कर्मणा सुवितायाभ्युदयार्थं प्रतिभूष- ति अलंकरोति कस्मिन्देशे यज्ञे कोन्यो यजमनोयुवां स्तुतिभिर्हविर्भिश्च पूजितवान् प्रति विलंबेन गतवंतौ स्थइत्यभिप्रायः ॥ १ ॥