श्रवणम्

10.40.6 समानपद
यु॒वं क॒वी ष्ठ॒ः पर्य᳚श्विना॒ रथं॒ विशो॒ न कुत्सो᳚ जरि॒तुर्न᳚शायथः ।
यु॒वोर्ह॒ मक्षा॒ पर्य᳚श्विना॒ मध्वा॒सा भ᳚रत निष्कृ॒तं न योष᳚णा ॥
▶ पदपाठः (Word-by-word)
यु॒वम् । क॒वी इति᳚ । स्थः॒ । परि᳚ । अ॒श्वि॒ना॒ । रथ᳚म् । विशः᳚ । न । कुत्सः᳚ । ज॒रि॒तुः । न॒शा॒य॒थः॒ ।
यु॒वोः । ह॒ । मक्षा᳚ । परि᳚ । अ॒श्वि॒ना॒ । मधु᳚ । आ॒सा । भ॒र॒त॒ । निः॒॑कृ॒तम् । न । योष᳚णा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनाश्विनौ कवी क्रांतदर्शिनौ युवं युवां रथं परिष्ठः परितोभवथः । अथ जरितुः स्तोतुः यज्ञं प्रतिगमनाय नशायथः रथं प्राप्नुथः । तत्र दृष्टांतः—विशोमनुष्यः कुत्सोन यथा कुत्सश्चेंद्रश्च सरथमधितिष्ठतः । तथाच मंत्रांतरं—यासिकुत्सेनसरथमवस्युस्तोदोवातस्यहर्यो- रीशानइति । किंच हे अश्विनाश्विनौ युवोर्ह युवयोः खलु स्वभूतं मधु मक्षा मक्षिका आ- सा आस्येन परिभरत बिभर्ति । तत्रदृष्टांतः—निष्कृतं न यथा निष्कृतं संस्कृतं मधु योष- णा नारी तद्वदित्यर्थः । तथाचमंत्रांतरं—उतस्यावांमधुमन्मक्षिकारपन्मदेसोमस्यौशिजोहुव- न्यतीति ॥ ६ ॥