यु॒वं ह᳚ भु॒ज्युं यु॒वम᳚श्विना॒ वशं᳚ यु॒वं शि॒ञ्जार᳚मु॒शना॒मुपा᳚रथुः ।
यु॒वो ररा᳚वा॒ परि᳚ स॒ख्यमा᳚सते यु॒वोर॒हमव᳚सा सु॒म्नमा च᳚के ॥
यु॒वो ररा᳚वा॒ परि᳚ स॒ख्यमा᳚सते यु॒वोर॒हमव᳚सा सु॒म्नमा च᳚के ॥
पदपाठः (Word-by-word)
यु॒वम् । ह॒ । भु॒ज्युम् । यु॒वम् । अ॒श्वि॒ना॒ । वश᳚म् । यु॒वम् । शि॒ञ्जार᳚म् । उ॒शना᳚म् । उप᳚ । आ॒र॒थुः॒ ।
यु॒वोः । ररा᳚वा । परि᳚ । स॒ख्यम् । आ॒स॒ते॒ । यु॒वोः । अ॒हम् । अव᳚सा । सु॒म्नम् । आ । च॒के॒ ॥
यु॒वोः । ररा᳚वा । परि᳚ । स॒ख्यम् । आ॒स॒ते॒ । यु॒वोः । अ॒हम् । अव᳚सा । सु॒म्नम् । आ । च॒के॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे अश्विनाश्विनौ युवं ह युवां खलु भुज्युं समुद्रमध्ये विपन्ननावं तुग्रपुत्रं भुज्युमुपा- रथुः उत्तारयितुमुपगतवंतौ भवथः । किंच युवं युवां वशहस्तिबलेन शत्रुभिः पराजयमानं वशनामधेयं राजान रक्षणायोपारथुः । किंच युवं युवां शिंजारं अत्रिं अग्निकूटादुत्तारयितुं उशनां कमनीयां स्तुतिं च श्रोतुं उपारथुः । तथाव मंत्रांतरं—अत्रिंशिंजारमश्विनेति । किंच युवोर्युवयोः सख्यं मित्रत्वं ररावा हविषां प्रदाता यजमानः पर्यासते पर्यास्ते छांदसोव- चनव्यत्ययः । किंच युवोर्युवयोः अवसा रक्षणेनाहं घोषा सुम्रं सुखं आचके कामये ॥ ७ ॥