श्रवणम्

10.40.3
प्रा॒तर्ज᳚रेथे जर॒णेव॒ काप᳚या॒ वस्तो᳚र्वस्तोर्यज॒ता ग᳚च्छथो गृ॒हम् ।
कस्य᳚ ध्व॒स्रा भ᳚वथ॒ः कस्य᳚ वा नरा राजपु॒त्रेव॒ सव॒नाव᳚ गच्छथः ॥
▶ पदपाठः (Word-by-word)
प्रा॒तः । ज॒रे॒थे॒ इति᳚ । ज॒र॒णा॑इ᳚व । काप᳚या । वस्तोः᳚॑वस्तोः । य॒ज॒ता । ग॒च्छ॒थः॒ । गृ॒हम् ।
कस्य᳚ । ध्व॒स्रा । भ॒व॒थः॒ । कस्य᳚ । वा॒ । न॒रा॒ । रा॒ज॒पु॒त्रा॑इ᳚व । सव᳚ना । अव᳚ । ग॒च्छ॒थः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नरा नेतारावश्विनौ युवां प्रातः प्रातः काले जरेथे स्तोतृभिः स्तूयेथे । तत्र दृष्टांतः- जरणेव यथाजरणावैश्वर्येण वृद्धौ राजानौ कापया प्रातः प्रबोधकस्य बंदिनोवाणी कापा तया स्तूयेते तद्वदित्यर्थः । किंच वस्तोर्वस्तोरन्वहं यजता यष्टव्यौ युवां गृहं यजमानस्य मंदिरं गच्छथः प्राप्नुथः तौ युवां कस्य यजमानसंबंधिनो दोषस्य ध्वस्रा ध्वंसकौ विना- शयितारौ भवथः कस्य यजमानस्य सवना सवनानि राजपुत्रेव राजकुमाराविव युवाम- वगच्छथः प्राप्नुथः ॥ ३ ॥