श्रवणम्

10.40.9 समानपद
जनि᳚ष्ट॒ योषा᳚ प॒तय᳚त्कनीन॒को वि चारु᳚हन्वी॒रुधो᳚ दं॒सना॒ अनु᳚ ।
आस्मै᳚ रीयन्ते निव॒नेव॒ सिन्ध᳚वो॒॑स्मा अह्ने᳚ भवति॒ तत्प᳚तित्व॒नम् ॥
▶ पदपाठः (Word-by-word)
जनि᳚ष्ट । योषा᳚ । प॒तय᳚त् । क॒नी॒न॒कः । वि । च॒ । अरु᳚हन् । वी॒रुधः᳚ । दं॒सनाः᳚ । अनु᳚ ।
आ । अ॒स्मै॒ । री॒य॒न्ते॒ । नि॒व॒ना॑इ᳚व । सिन्ध᳚वः । अ॒स्मै । अह्ने᳚ । भ॒व॒ति॒ । तत् । प॒ति॒॑त्व॒नम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ युवयोः प्रसादादियं घोषा योषा स्त्रीगुणोपेता सुभगाजनिष्ट जाता अस्याः समीपं कनीनकः कन्याकामः पतिः पतयत् पततु अस्मै कनीनकाय युवयोर्दंसना अनुवृष्टि लक्षणानि कर्माणि लक्षीकृत्य वीरुधः ओषधयोविचारुहन् विरोहन्तु प्रादुर्भवन्तु । अस्मै कनीनकाय निवनेव प्रवणेनेव सिंधवउदकानि आरीयंते अभिगच्छंति तद्वत् तावीरुधोभि- गच्छंतु । किंच अह्ने केनाप्यहंतव्यायास्मै कनीनकाय तत्संभोगसमर्थं पतित्वनं यौवनं भवति भवतु ॥ ९ ॥