श्रवणम्

10.40.2 समानपद
कुह᳚ स्विद्दो॒षा कुह॒ वस्तो᳚र॒श्विना॒ कुहा᳚भिपि॒त्वं क᳚रत॒ः कुहो᳚षतुः ।
को वां᳚ शयु॒त्रा वि॒धवे᳚व दे॒वरं॒ मर्यं॒ न योषा᳚ कृणुते स॒धस्थ॒ आ ॥
▶ पदपाठः (Word-by-word)
कुह᳚ । स्वि॒त् । दो॒षा । कुह᳚ । वस्तोः᳚ । अ॒श्विना᳚ । कुह᳚ । अ॒भि॒॑पि॒त्वम् । क॒र॒तः॒ । कुह᳚ । ऊ॒ष॒तुः॒ ।
कः । वा॒म् । श॒यु॒॑त्रा । वि॒धवा᳚॑इव । दे॒वर᳚म् । मर्य᳚म् । न । योषा᳚ । कृ॒णु॒ते॒ । स॒ध॑स्थे᳚ । आ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनाश्विनौ कुहस्वित् क्वस्विद्दोषारत्रौ भवथइतिशॆषः कुह वस्तोः क्व वा दिवा भवथः कुह क्व वाभिपित्वमभिप्राप्तिं करतः कुरुथः कुह क्ववा ऊषथुः वसथः । किंच वां युवां कोयजमानः सधस्थे सहस्थाने वेद्याख्ये आकृणुते परिचरणार्थमात्माभिमुखीकरोति । तत्र दृष्टांतौदर्शयति—शयुत्रा शयने विधवेव यथा मृतर्तृका नारी देवरं भर्तृभ्रातरं अभि- मुखीकरोति । मर्यं न यथा च सर्वं मनुष्यं योषा सर्वा नारी संभोगकालेभिमुखी करोति तद्वदित्यर्थः । तथाच यास्कः—क्वस्विद्रात्रौ भवथः क्वदिवा क्वाभिप्राप्तिं कुरुथः क्ववसथः कोवां शयने विधवेवं देवरं देवरः कस्माद्द्वितीयोवरउच्यते विधवाविधातृकाभवति विधव नाद्वा विधावनाद्वेति चर्मशिराअपिवा धवइति मनुष्यनाम तद्वियोगाद्विधवा देवरो दीव्य- तिकर्मा मर्योमनुष्यामरणधर्मा योषायौतेराकुरुते सहस्थानेइति ॥ २ ॥