श्रवणम्

10.40.11
न तस्य᳚ विद्म॒ तदु॒ षु प्र वो᳚चत॒ युवा᳚ ह॒ यद्यु᳚व॒त्याः क्षेति॒ योनि᳚षु ।
प्रि॒योस्रि᳚यस्य वृष॒भस्य᳚ रे॒तिनो᳚ गृ॒हं ग᳚मेमाश्विना॒ तदु᳚श्मसि ॥
▶ पदपाठः (Word-by-word)
न । तस्य᳚ । वि॒द्म॒ । तत् । ऊं॒ इति᳚ । सु । प्र । वो॒च॒त॒ । युवा᳚ । ह॒ । यत् । यु॒व॒त्याः । क्षेति᳚ । योनि᳚षु ।
प्रि॒य॑उ᳚स्रियस्य । वृ॒ष॒भस्य᳚ । रे॒तिनः᳚ । गृ॒हम् । ग॒मे॒म॒ । अ॒श्वि॒ना॒ । तत् । उ॒श्म॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनाश्विनौ तस्य तत् सुखं वयं न विद्म न जानीम तत्सुखं यूयं सु सुष्ठु प्रवो- चत । बहुवचनं पूजार्थं युवा ह तरुणः खलु मत्पतिः युवत्या यौवनान्वितायामम योनिषु गृहेषु यत् क्षेति निवसतीति । किंच प्रियोस्रियस्य प्रिययुवतेर्वृषभस्य सेक्तुः रेतिनोरेतस्वि- नोमत्पतेर्गृहं गमेम गच्छेम वयंतद्गृहमुश्मसि कामयामहे ॥ ११ । ॥