श्रवणम्

10.40.4
यु॒वां मृ॒गेव᳚ वार॒णा मृ᳚ग॒ण्यवो᳚ दो॒षा वस्तो᳚र्ह॒विषा॒ नि ह्व᳚यामहे ।
यु॒वं होत्रा᳚मृतु॒था जुह्व᳚ते न॒रेषं॒ जना᳚य वहथः शुभस्पती ॥
▶ पदपाठः (Word-by-word)
यु॒वाम् । मृ॒गा॑इ᳚व । वा॒र॒णा । मृ॒ग॒ण्यवः᳚ । दो॒षा । वस्तोः᳚ । ह॒विषा᳚ । नि । ह्व॒या॒म॒हे॒ ।
यु॒वम् । होत्रा᳚म् । ऋ॒तु॒॑था । जुह्व᳚ते । न॒रा॒ । इष᳚म् । जना᳚य । व॒ह॒थः॒ । शु॒भः॒ । प॒ती॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ युवां वारणा वारणौ मृगेव यथा शार्दूलौ मृगण्यवोमृगयवः तद्वद्वयं दोषा रात्रौ वस्तोरहनि च हविषा निह्वयामहे नियमेन ह्वयामः । किंच हे नरा नेतारावश्वि- नौ युवं युवां ऋतुथा कालेकाले होत्रामाहुतिं जुह्वते जुह्वति यजमानाइतिशेषः । किंच युवां शुभः शुभस्य वृष्ट्युदकस्य पती स्वामिनौ संतौ जनाय जनार्थमिषं अन्नं वहथः प्रापयथः ॥ ४ ॥