आ वा᳚मगन्त्सुम॒तिर्वा᳚जिनीवसू॒ न्य᳚श्विना हृ॒त्सु कामा᳚ अयंसत ।
अभू᳚तं गो॒पा मि᳚थु॒ना शु᳚भस्पती प्रि॒या अ᳚र्य॒म्णो दुर्या{4}᳚ अशीमहि ॥
अभू᳚तं गो॒पा मि᳚थु॒ना शु᳚भस्पती प्रि॒या अ᳚र्य॒म्णो दुर्या{4}᳚ अशीमहि ॥
पदपाठः (Word-by-word)
आ । वा॒म् । अ॒ग॒न् । सु॒॑म॒तिः । वा॒जि॒नी॒व॒सू॒ इति᳚ वाजिनी॑वसू । नि । अ॒श्वि॒ना॒ । हृ॒त्॑सु । कामाः᳚ । अ॒यं॒स॒त॒ ।
अभू᳚तम् । गो॒पा । मि॒थु॒ना । शु॒भः॒ । प॒ती॒ इति᳚ । प्रि॒याः । अ॒र्य॒म्णः । दुर्या᳚न् । अ॒शी॒म॒हि॒ ॥
अभू᳚तम् । गो॒पा । मि॒थु॒ना । शु॒भः॒ । प॒ती॒ इति᳚ । प्रि॒याः । अ॒र्य॒म्णः । दुर्या᳚न् । अ॒शी॒म॒हि॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे वाजिनीवसू अन्नधनौ शुभस्पती उदकस्य स्वामिनौ हे अश्विनाश्विनौ मिथुना मिथु- नौ परस्परसहितौ वां युवां सुमतिरागन् आगच्छतु हृत्स्व्मदीयेषु हृदयेषु कामाः अभि- लाषाः न्ययंसत नियम्यंताम् । किंच युवां गोपामम गोपायितारावभूतं भवतम् । अपिच प्रियाः सत्योवयं अर्यम्णः पत्युः दुर्यान् गृहान् अशीमहि प्राप्नुयाम ॥ १२ ॥