ता म᳚न्दसा॒ना मनु᳚षो दुरो॒ण आ ध॒त्तं र॒यिं स॒हवी᳚रं वच॒स्यवे᳚ ।
कृ॒तं ती॒र्थं सु᳚प्रपा॒णं शु᳚भस्पती स्था॒णुं प᳚थे॒ष्ठामप᳚ दुर्म॒तिं ह᳚तम् ॥
कृ॒तं ती॒र्थं सु᳚प्रपा॒णं शु᳚भस्पती स्था॒णुं प᳚थे॒ष्ठामप᳚ दुर्म॒तिं ह᳚तम् ॥
पदपाठः (Word-by-word)
ता । म॒न्द॒सा॒ना । मनु᳚षः । दु॒रो॒णे । आ । ध॒त्तम् । र॒यिम् । स॒ह॑वी᳚रम् । व॒च॒स्यवे᳚ ।
कृ॒तम् । ती॒र्थम् । सु॒॑प्र॒पा॒नम् । शु॒भः॒ । प॒ती॒ इति᳚ । स्था॒णुम् । प॒थे॒॑स्थाम् । अप᳚ । दुः॒॑म॒तिम् । ह॒त॒म् ॥
कृ॒तम् । ती॒र्थम् । सु॒॑प्र॒पा॒नम् । शु॒भः॒ । प॒ती॒ इति᳚ । स्था॒णुम् । प॒थे॒॑स्थाम् । अप᳚ । दुः॒॑म॒तिम् । ह॒त॒म् ॥
सायणभाष्यम् (Sayana Commentary)
हे अश्विनौ मंदसाना मंदसानौ ता तौ युवां मनुषोमनष्यस्य मत्पतेर्दुरोणे गृहे वच- स्यवे युष्मत् स्तुतिकामायै मह्यं सहवीरं पुत्रादिसहितं रयिं धनं आधत्तं स्थापयतम् । किंच हे अश्विनौ शुभस्पती उदकस्य स्वामिनौ युवां पतिगृहं गच्छंत्यामम तीर्थं पानाय सुप्र- पाणं कृतं कुरुतम् । किंच युवां पथेष्ठां मार्गस्थं स्थाणुं वृक्षं दुर्मतिं दुर्बुद्धिं परिपंथिनंचाप- हतं अपगमयतं ॥ १३ ॥