यु॒वां ह॒ घोषा॒ पर्य᳚श्विना य॒ती राज्ञ᳚ ऊचे दुहि॒ता पृ॒च्छे वां᳚ नरा ।
भू॒तं मे॒ अह्न᳚ उ॒त भू᳚तम॒क्तवे॑श्वा᳚वते र॒थिने᳚ शक्त॒मर्व᳚ते ॥
भू॒तं मे॒ अह्न᳚ उ॒त भू᳚तम॒क्तवे॑श्वा᳚वते र॒थिने᳚ शक्त॒मर्व᳚ते ॥
पदपाठः (Word-by-word)
यु॒वाम् । ह॒ । घोषा᳚ । परि᳚ । अ॒श्वि॒ना॒ । य॒ती । राज्ञः᳚ । ऊ॒चे॒ । दु॒हि॒ता । पृ॒च्छे । वा॒म् । न॒रा॒ ।
भू॒तम् । मे॒ । अह्ने᳚ । उ॒त । भू॒त॒म् । अ॒क्तवे᳚ । अश्व᳚॑वते । र॒थिने᳚ । श॒क्त॒म् । अर्व᳚ते ॥
भू॒तम् । मे॒ । अह्ने᳚ । उ॒त । भू॒त॒म् । अ॒क्तवे᳚ । अश्व᳚॑वते । र॒थिने᳚ । श॒क्त॒म् । अर्व᳚ते ॥
सायणभाष्यम् (Sayana Commentary)
हे नरा नेतारावश्विनौ युवां ह खलु परि परितोयती गच्छंती राज्ञोदीप्तस्यकक्षीवतो- दुहिता पुत्री घोषा घोषाख्या अहमूचे संनिहितेभ्योवृद्धेभ्यः उक्तवत्यस्मि । किंच वां युवां पृच्छे वृद्धान् संनिहितान् कीदृशावश्विनाविति पृच्छामि । तथा सति मे मम अह्ने दिव- साय दिवसनिर्वर्त्यकर्मणे भूतं भवतम् । उतापिच अक्तवे रात्र्यै रात्रिनिर्वर्त्यकर्मणे भूतं भव- तम् । तथाश्वादते अश्वयुक्ताय रथिने रथवतेचार्वते भ्रातृव्याय शक्तं निरसनेशक्तौ भवतं ॥ ५ ॥