क्व᳚ स्विद॒द्य क᳚त॒मास्व॒श्विना᳚ वि॒क्षु द॒स्रा मा᳚दयेते शु॒भस्पती᳚ ।
क ईं॒ नि ये᳚मे कत॒मस्य᳚ जग्मतु॒र्विप्र᳚स्य वा॒ यज᳚मानस्य वा गृ॒हम् ॥
क ईं॒ नि ये᳚मे कत॒मस्य᳚ जग्मतु॒र्विप्र᳚स्य वा॒ यज᳚मानस्य वा गृ॒हम् ॥
पदपाठः (Word-by-word)
क्व᳚ । स्वि॒त् । अ॒द्य । क॒त॒मासु᳚ । अ॒श्विना᳚ । वि॒क्षु । द॒स्रा । मा॒द॒ये॒ते॒ इति᳚ । शु॒भः । पती॒ इति᳚ ।
कः । ई॒म् । नि । ये॒मे॒ । क॒त॒मस्य᳚ । ज॒ग्म॒तुः॒ । विप्र᳚स्य । वा॒ । यज᳚मानस्य । वा॒ । गृ॒हम् ॥
कः । ई॒म् । नि । ये॒मे॒ । क॒त॒मस्य᳚ । ज॒ग्म॒तुः॒ । विप्र᳚स्य । वा॒ । यज᳚मानस्य । वा॒ । गृ॒हम् ॥
सायणभाष्यम् (Sayana Commentary)
हे अश्विनाश्विनौ दस्रा दर्शनीयौ शुभस्पती उदकस्य पती स्वामिनौ भवंतौ क्वस्वित् क्वस्थितौ अनपदे अद्यास्मिन्नहनि कतमासु कासु विक्षु प्रजासु मादयेते आत्मानं तर्पयतः । किंच कोयजमानईमेनौ युवां नियेमे नियच्छति । किंच भवंतौ कतमस्य विप्रस्य मेधा- विनः स्तोतुर्वा यजमानस्य वा गृहं जग्मतुः गतवंतौ ॥ १४ ॥
समानमितितृचं द्वादशं सूक्तं घोषायाः पुत्रस्य सुहस्त्यस्यार्षं जागतमाश्विनं अनुक्रांतंच --समानंतृचंसुहस्त्योघौषेयइति । प्रातरनुवाकाश्विनशस्त्रयोरुक्तोविनियोगः ।