यु॒वं ह᳚ कृ॒शं यु॒वम᳚श्विना श॒युं यु॒वं वि॒धन्तं᳚ वि॒धवा᳚मुरुष्यथः ।
यु॒वं स॒निभ्य᳚ः स्त॒नय᳚न्तमश्वि॒नाप᳚ व्र॒जमू᳚र्णुथः स॒प्तास्य᳚म् ॥
यु॒वं स॒निभ्य᳚ः स्त॒नय᳚न्तमश्वि॒नाप᳚ व्र॒जमू᳚र्णुथः स॒प्तास्य᳚म् ॥
पदपाठः (Word-by-word)
यु॒वम् । ह॒ । कृ॒शम् । यु॒वम् । अ॒श्वि॒ना॒ । श॒युम् । यु॒वम् । वि॒धन्त᳚म् । वि॒धवा᳚म् । उ॒रु॒ष्य॒थः॒ ।
यु॒वम् । स॒नि॑भ्यः᳚ । स्त॒नय᳚न्तम् । अ॒श्वि॒ना॒ । अप᳚ । व्र॒जम् । ऊ॒र्णु॒थः॒ । स॒प्त॑आ᳚स्यम् ॥
यु॒वम् । स॒नि॑भ्यः᳚ । स्त॒नय᳚न्तम् । अ॒श्वि॒ना॒ । अप᳚ । व्र॒जम् । ऊ॒र्णु॒थः॒ । स॒प्त॑आ᳚स्यम् ॥
सायणभाष्यम् (Sayana Commentary)
हेअश्विना अश्विनौ युवं युवां ह खलु कृशं दुर्बलं कृशनामधेयं वा उरुष्यथः रक्षथः । किंच युवं युवां शयुं शयुनामानमृषिं उरुष्यथः । किंच युवं युवां विधंतं परिचरंतं मानु- ष्यं विधवां चापतिकां वध्रिमतीं योध्रीं स्त्रियं चोरुष्यथः । किंच हे अश्विनाश्विनौ युवं युवां स्तनयंतं शब्दं कुर्वंतं सप्तास्यं सर्पणशीलद्वारं व्रजं मेघं व्रजः चरुरितिमेघनामसु पाठात् । सनिभ्योहविषां दातृभ्यः अपोर्णुथः विवृतद्वारं कृतवंतौ स्थइत्यर्थः ॥ ८ ॥