दशमं मण्डलम् - सूक्तम् 29

8 ऋचः

ऋषिः: वसुक्रः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 10.29 - सम्पूर्णम्

1 / 8
ऋक्: 10.29.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (8)
10.29.1
वने॒ न वा॒ यो न्य᳚धायि चा॒कञ्छुचि᳚र्वां॒ स्तोमो᳚ भुरणावजीगः ।
यस्येदिन्द्र᳚ः पुरु॒दिने᳚षु॒ होता᳚ नृ॒णां नर्यो॒ नृत᳚मः क्ष॒पावा᳚न् ॥
▶ पदपाठः (Word-by-word)
वने᳚ । न । वा॒ । यः । नि । अ॒धा॒यि॒ । चा॒कन् । शुचिः᳚ । वा॒म् । स्तोमः᳚ । भु॒र॒णौ॒ । अ॒जी॒ग॒रिति᳚ ।
यस्य᳚ । इत् । इन्द्रः᳚ । पु॒रु॒॑दिने᳚षु । होता᳚ । नृ॒णाम् । नर्यः᳚ । नृ॑त᳚मः । क्ष॒पा॑वा᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वनेनवायोन्यधायीति वने न वनइव वृक्ष इव शकुनिः स्वे नीडे वायमात्मीयं पुत्रं न्यधायि निदधाति शशुकमजातपक्षं सयथा तत्र निहितः चाकन् भयाद्दिशोनिरीक्षमाण आसीत् । अथवा कामयमानस्तदुत्सुकमनाआसीत् एवमयमस्मासु वृक्षस्यनीडभूतेषु शकुनि पुत्रभूतः शुचिर्व्यपगतसर्वदोषः वां युवयोः स्वभूतः स्तोमः हे भुरणौ भर्तारावश्विनौ शीघ्रौ वा भुरण्युरिति क्षिप्रनामेति । किञ्च यस्य स्तोमस्य पुरुदिनेषु बहुष्वहःसु इन्द्रो होता इन्द्रोप्याह्वाता भवति ममायं स्तोमः स्यादिति । किंलक्षणः पुनरिंद्रआह्वाता योनृणां मनुष्याणां नृतमः मनुष्याणामपि मनुष्यतमः शूराणामपि मध्ये शूरतमइत्यर्थः । नर्यश्च नृभ्योहितोयः क्षपावांश्च रात्रिपर्यायेषु सोमभागः एवं गुणयुक्तेन यः स्तोमः इन्द्रे णापि प्रार्थ्यतेस्मासु वर्तमानः सयुवां प्रत्यजीगः नित्यकालमेव गच्छतीत्यर्थः । एवं ताव देतामृचमाश्विनीमितिकृत्वा व्याचक्षते । तदसाधु । ऎन्द्रेहि सूक्ते प्रथमैवेयं भवति तच्च पुनः पृष्ठ्यस्य षष्ठेहनि स्तोमे वर्धमाने माध्यन्दिनसवने ब्राह्मणाच्छंसिनः शस्त्रे विनियु- ज्यते । हे भुरणौ भर्तारौ देवानां पती यएषस्तोमोस्मासु निहितः शुचिर्व्यपगतदोषः शकु निपुत्रइव वने वनावयवे वृक्षे चाकन्पश्यन्निव कामयमानइव वा इन्द्रमास्ते यस्य स्तोम- ता किमिति यस्येन्द्रः पुरुदिनेषु बहुष्वहःसु आह्वाताभूत् । अपिनाम मामनेन स्तोमेन स्तुयुरिति । किंलक्षणः पुनराह्वाता यस्येदिन्द्रइति नृणां नृतमः नर्यश्च क्षपावांश्च समान- मेतत्पूर्वेणार्थेन । यमेवं इन्द्रः प्रार्थयते सएषस्तोमः तं प्रत्यजीगः गच्छतीत्यर्थः । अथवा सएषः स्तोमोस्माभिरुदीर्यमाणस्तस्येन्द्रस्य गुणान् गृह्णातीति स्यात् जिगर्तिर्गृह्णातिकर्मेति ह्युक्तं एवमत्र चाकन्नित्यस्य पश्यन्निति वा कामयमानइतितेत्येतौ विपरिणामौ उपपद्येते शब्दसारूप्यादर्थाविरोधाच्च । एतस्मिन्निगमे पदविभागगतः कश्चिद्विचारोस्ति तमाह भाष्य कारः—वेति च यइतिच । चकारशाकल्यइति वा इति यइति च पदे चकारशाकल्यः पद- कारः । तदेतद्विचार्यमाणं न साधु भवति । किं कारणं उदात्तंत्वेवमाख्यतमभविष्यत् एवमेत स्मिन्पदद्वये सति यदेतदाख्यातमधायीतिपदं उदात्तमभविष्यत् यद्वृत्तात्परस्य नित्यमा- ख्यातस्य निघातोन भवतीति लक्षणविदोमन्यन्ते । नचेदमुदात्तं तस्माद्यइति नेदं यद्वृत्तं किंतर्हि वायइत्येकमेवपदम् । किञ्च असुअमाप्तश्च अर्थः अपुष्कलः एवमेतस्मिन्पदद्वये सति मन्त्रस्यार्थः असुसमाप्तो भवति ॥ १ ॥

10.29.2
प्र ते᳚ अ॒स्या उ॒षस॒ः प्राप᳚रस्या नृ॒तौ स्या᳚म॒ नृत᳚मस्य नृ॒णाम् ।
अनु᳚ त्रि॒शोकः᳚ श॒तमाव᳚ह॒न्नॄन्कुत्से᳚न॒ रथो॒ यो अस᳚त्सस॒वान् ॥
▶ पदपाठः (Word-by-word)
प्र । ते॒ । अ॒स्याः । उ॒षसः᳚ । प्र । अप᳚रस्याः । नृ॒तौ । स्या॒म॒ । नृ॑त᳚मस्य । नृ॒णाम् ।
अनु᳚ । त्रि॒॑शोकः᳚ । श॒तम् । आ । अ॒व॒ह॒त्् । नॄन् । कुत्से᳚न । रथः᳚ । यः । अस᳚त् । स॒स॒॑वान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्यावर्तमानायाः ईदृश्याउषसः नृतौ नॄनये नयने प्रापणे उदयकाले इत्यर्थः नृणां नेतॄणां मध्ये नृतमस्य अतिशयेन नेतुस्ते तवेन्द्रस्य स्तुत्या यागेन च प्रस्याम वयं प्रकृ ष्टाभवेम । तथा हे इन्द्र अपरस्या आगामिन्याश्चोषसः नृतौ प्रापणे तव स्तुत्या यागेन च वयं प्रकृष्टाभवेमेत्याशास्महे । किञ्च त्रिशोकोनामऋषिः हे इन्द्र त्वामाराध्य त्वत्प्रसा दात् शतं बहून् अनु अनुचरभूतान् नॄन् मनुष्यानावहत् प्रापितवान् लब्धवानित्यर्थः । तथा तव कुत्सस्य च ससवान् सनिता युगपदेव संभक्ता योरथः असत् अस्ति तं रथं कुत्सो लब्धवानितिशॆषः । तथाच मन्त्रान्तरे श्रूयते—यासिकुत्सेनसरथमवस्युरिति । यस्मादेवं तस्मात् त्वत्प्रसादाद्वयं प्रकृष्टाभवेमेत्यर्थः ॥ २ ॥

10.29.3 समानपद
कस्ते॒ मद᳚ इन्द्र॒ रन्त्यो᳚ भू॒द्दुरो॒ गिरो᳚ अ॒भ्यु१॒᳚ग्रो वि धा᳚व ।
कद्वाहो᳚ अ॒र्वागुप᳚ मा मनी॒षा आ त्वा᳚ शक्यामुप॒मं राधो॒ अन्नै᳚ः ॥
▶ पदपाठः (Word-by-word)
कः । ते॒ । मदः᳚ । इ॒न्द्र॒ । रन्त्यः᳚ । भू॒त् । दुरः᳚ । गिरः᳚ । अ॒भि । उ॒ग्रः । वि । धा॒व॒ ।
कत् । वाहः᳚ । अ॒र्वाक् । उप᳚ । मा॒ । म॒नी॒षा । आ । त्वा॒ । श॒क्या॒म् । उ॒प॒॑मम् । राधः᳚ । अन्नैः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते तव ईषन्मध्यमोत्तमानां सोमजन्यानां मदानां मध्ये कोमदः रत्न्योरमयिता प्रीतिकरोभूत् भवति त्वत्प्रीतिकरमदयोग्यसोमदानाभिप्रायेणायं प्रश्नः । उग्रःओजस्वी त्वं दुरः यज्ञगृहद्वाराणि गिरः स्तुतिलक्षणावाचश्च अभिविधाव अभ्यागच्छ । किञ्च कत् कदा वाहः इन्द्रं प्रत्युह्यतइति वाहः सोमउच्यते एवं भूतः अर्वाक् त्वत्प्रसादात्फलदानायास्मदभिमुखो भविष्यतीतिशॆषः । अपिच कदा मनीषा सर्वार्थदर्शनाप्रज्ञा सर्वगुणग्राहिणीस्तुतिर्वा मा मां त्वत्प्रसादादुपगमिष्यतीतिशेषः । कदा हे इन्द्र त्वा त्वां आइत्युपसर्गश्रुतेर्योग्यपदाध्याहारः आराध्य वयं अन्नैः सह राधोधनं उपमं मत्समीपं शक्यां शकिरत्र गत्यर्थोन्तर्भावितण्यर्थः संगमयेयं ॥ ३ ॥

10.29.4
कदु᳚ द्यु॒म्नमि᳚न्द्र॒ त्वाव᳚तो॒ नॄन्कया᳚ धि॒या क᳚रसे॒ कन्न॒ आग᳚न् ।
मि॒त्रो न स॒त्य उ᳚रुगाय भृ॒त्या अन्ने᳚ समस्य॒ यदस᳚न्मनी॒षाः ॥
▶ पदपाठः (Word-by-word)
कत् । ऊं॒ इति᳚ । द्यु॒म्नम् । इ॒न्द्र॒ । त्वा॑व᳚तः । नॄन् । कया᳚ । धि॒या । क॒र॒से॒ । कत् । नः॒ । आ । अ॒ग॒न् ।
मि॒त्रः । न । स॒त्यः । उ॒रु॒॑गा॒य॒ । भृ॒त्यै । अन्ने᳚ । स॒म॒स्य॒ । यत् । अस᳚न् । म॒नी॒षाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं कदु कदा वा द्युम्नं हविर्लक्षणमस्मदीयमन्नं भुक्त्वेतिशेषः कया धिया के- न कर्मणा नॄन् नेतॄनस्मान् त्वावतः त्वत्सदृशान्करसे करिष्यसि । कत् कदा नोस्मान्प्रति आगन् आगमिष्यसि । सत्यः अनवद्यइत्यर्थः मित्रोन सखेव तथा हे उरुगाय बहुकीर्ते इन्द्र त्वं भृत्यै भरणाय पोषणाय भवसीति शेषः । यद्यदा समस्य अस्मदादिकस्य सर्वस्य जग तः अन्ने जगत्स्थितिनिमित्ते आहारे मनीषाः अत्राभिलषणाबुद्धयः असन् भवेयुः तदा सर्वस्य पोषणाय त्वं भवसीत्यर्थः ॥ ४ ॥

10.29.5
प्रेर᳚य॒ सूरो॒ अर्थं॒ न पा॒रं ये अ᳚स्य॒ कामं᳚ जनि॒धा इ᳚व॒ ग्मन् ।
गिर᳚श्च॒ ये ते᳚ तुविजात पू॒र्वीर्नर᳚ इन्द्र प्रति॒शिक्ष॒न्त्यन्नै᳚ः ॥
▶ पदपाठः (Word-by-word)
प्र । ई॒र॒य॒ । सूरः᳚ । अर्थ᳚म् । न । पा॒रम् । ये । अ॒स्य॒ । काम᳚म् । ज॒नि॒धाः॑इ᳚व । ग्मन् ।
गिरः᳚ । च॒ । ये । ते॒ । तु॒वि॒॑जा॒त॒ । पू॒र्वीः । नरः᳚ । इ॒न्द्र॒ । प्र॒ति॒॑शिक्ष᳚न्ति । अन्नैः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सूरः सूर्यः अर्थंन यथा अर्तारं गन्तारं योगिनमनुगृह्णन् पारं संसारस्यान्तमपवर्गं ग- मयति तथा हे इन्द्र त्वं यजमानान् संसारस्यान्तं प्रेरय गमय ये अस्मदादयोयजमानाः अस्य तवेन्द्रस्य कामं सोमपानेच्छां ग्मन् गमिरत्र विपूर्वोन्तर्भावितण्यर्थश्च द्रष्टव्यः विग- मयन्ति महता सोमपानेनापनयन्ति । तत्र दृष्टान्तः—जनिधाइव जनीनां जायानां संभो- गकाले शय्यासु धारयितारः पतयोयथा प्रभूतसंभोगप्रदानेन मैथुनेच्छामपनयन्ति तद्वत् । किञ्च नरोनेतारोस्मदादयोये यजमानाः हे तुविजात बहुरूप रूपंरूपंप्रतिरूपोबभुवेति वच नात् । सर्वात्मन्निन्द्र ते तुभ्यं पूर्वीः अनादिकालप्रवृत्तागिरश्च स्तुतिलक्षणावाचश्च अन्नैः पुरोडाशादिहविर्भिः सह प्रतिशिक्षन्ति प्रतिकालं प्रयच्छन्ति तानस्मदादीन्यजमानान् पारं गमयेति पूर्वेण संबंधः ॥ ५ ॥

10.29.6
मात्रे॒ नु ते॒ सुमि᳚ते इन्द्र पू॒र्वी द्यौर्म॒ज्मना᳚ पृथि॒वी काव्ये᳚न ।
वरा᳚य ते घृ॒तव᳚न्तः सु॒तास॒ः स्वाद्म᳚न्भवन्तु पी॒तये॒ मधू᳚नि ॥
▶ पदपाठः (Word-by-word)
मात्रे॒ इति᳚ । नु । ते॒ । सुमि᳚ते॒ इति॒ सु॑मि᳚ते । इ॒न्द्र॒ । पू॒र्वी इति᳚ । द्यौः । म॒ज्मना᳚ । पृ॒थि॒वी । काव्ये᳚न ।
वरा᳚य । ते॒ । घृ॒त॑व᳚न्तः । सु॒तासः᳚ । स्वाद्म᳚न् । भ॒व॒न्तु॒ । पी॒तये᳚ । मधू᳚नि ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते तव स्वभूतेन मज्मना शत्रूणां मज्जकेन काव्येन कर्मणा द्यौः पृथिवी द्यावा पृथिव्यौ नु क्षिप्रं सुमिते निर्मिते । कीदृश्यौ मात्रे निर्मात्र्यौ पूर्वी पूर्व्यौ महत्यौ । यस्मादी दृशेन महत्त्वेन युक्तः तस्मात् घृतवन्तः अभिमुखत्वात् त्वां क्षरंतः दीप्तिमन्तोवा सुसंस्कृत त्वात् । यद्वा आज्यसंयुक्तावा सुतासः अभिषुताः सोमाः वराय श्रेष्ठाय ते तुभ्यमिन्द्राय स्वाद्मन् स्वाद्मानः स्वादिष्ठाः भवन्तु अस्माभिर्दत्ताः सन्तु । किमर्थं पीतये पानाय मधूनि मधुररसात्मकानि पुरोडाशादीन्यन्नानि हवींषि भक्षणार्थं दत्तानि भवन्तु ॥ ६ ॥

10.29.7 समानपद
आ मध्वो᳚ अस्मा असिच॒न्नम᳚त्र॒मिन्द्रा᳚य पू॒र्णं स हि स॒त्यरा᳚धाः ।
स वा᳚वृधे॒ वरि᳚म॒न्ना पृ᳚थि॒व्या अ॒भि क्रत्वा॒ नर्य॒ः पौंस्यै᳚श्च ॥
▶ पदपाठः (Word-by-word)
आ । मध्वः᳚ । अ॒स्मै॒ । अ॒सि॒च॒न् । अम᳚त्रम् । इन्द्रा᳚य । पू॒र्णम् । सः । हि । स॒त्य॑रा᳚धाः ।
सः । व॒वृ॒धे॒ । वरि᳚मन् । आ । पृ॒थि॒व्याः । अ॒भि । क्रत्वा᳚ । नर्यः᳚ । पौंस्यैः᳚ । च॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्मै इन्द्राय अस्येन्द्रार्थं मधोव्मधुररसस्य सोमस्य पूर्णं अमत्रं ग्रहचमसादिकं पात्रं आअसिचन् असिञ्चन् आभिमुख्येन स्थित्वा परयाभक्त्या अस्मदीयाऋत्विजः सिक्तवन्तः अग्नौ प्रक्षिप्तवन्तः । हि यस्मात्कारणात्सइन्द्रः सत्यराधाः सत्यधनः यजमानेभ्योदातव्येना विसंवादिधनइत्यर्थः । तस्मादसिञ्चन्निति संबंधः । अग्नावासिक्तेन तेन पात्रेण तृप्तः सइन्द्रः पृथिव्याः अन्तरिक्षस्य वरिमन्नतिशयेन विस्तीर्णस्थाने आगत्य अभिववृधे अभिवर्धते । कीदृशइन्द्रः नर्यः नृभ्योहितः क्रत्वा वृत्रवधादिकर्मणा प्रज्ञानेनवा पौंस्यैश्च युक्तइतिशेषः ॥ ७ ॥

10.29.8 समानपद
व्या᳚न॒ळिन्द्र॒ः पृत᳚ना॒ः स्वोजा॒ आस्मै᳚ यतन्ते स॒ख्याय᳚ पू॒र्वीः ।
आ स्मा॒ रथं॒ न पृत᳚नासु तिष्ठ॒ यं भ॒द्रया᳚ सुम॒त्या चो॒दया᳚से ॥
▶ पदपाठः (Word-by-word)
वि । आ॒न॒ट् । इन्द्रः᳚ । पृत᳚नाः । सु॒॑ओजाः᳚ । आ । अ॒स्मै॒ । य॒त॒न्ते॒ । स॒ख्याय᳚ । पू॒र्वीः ।
आ । स्म॒ । रथ᳚म् । न । पृत᳚नासु । ति॒ष्ठ॒ । यम् । भ॒द्रया᳚ । सु॒॑म॒त्या । चो॒दया᳚से ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्वोजाः शोभनबलः इन्द्रः पृतनाः शत्रुसेनाः व्यानट् व्याप्नोति इन्द्रः संग्रामेषु केना- प्यप्रतिहन्यमानः सन् शत्रून् जयतीत्यर्थः । किञ्च पूर्वीः अत्र पूर्वशब्दउत्कृष्टवाची उत्कृष्टाः शत्रुसेनाः अप्रभवन्त्यः सत्यः अस्मै अस्येन्द्रस्य सख्याय संबंधित्वलक्षणाय सखित्वाय आयतंते संधिं कर्तुमिच्छन्तीत्यर्थः । अपरोर्धर्चः प्रत्यक्षकृतत्वात् भिन्नं वाक्यम् । हे इन्द्र त्वं यं स्वीयं रथं भद्रया कल्याण्या सुमत्या शोभनया परानुग्रहयाबुध्या चोदयासे चोदयसे यज्ञान् प्रति प्रेरयसि । तं रथमस्मद्यज्ञं प्रत्यागन्तुं महतादरेणातिष्ठ आरोह । तत्रदृष्टान्तः- पृतनासु संग्रामेषु रथं न यथा स्वरथं महतादरेणातिष्ठसि तद्वत् । स्मेति पादपूरणः ॥ ८ ॥

तृतीयेनुवाके त्रयोदशसूक्तानि तत्र प्रदेवत्रेति पञ्चदशर्चं प्रथमं सूक्तं इलूषपुत्रस्य कव- षस्यार्षं त्रैष्टुभमब्देवत्यं अपान्नपाद्देवताकं वा । तथाचानुक्रान्तं—प्रदेवत्रापञ्चोना कवषऎलू- षआपमपोनप्त्रीयं वेति । अपइष्यहोतरित्युक्तः सन् होता प्रदेवत्रेत्याद्यानवर्चोनुब्रूयात् । सूत्रितञ्च—प्रदेवत्राब्रह्मणेगातुरेत्विति नव हिनोतानोअध्वरंदेवयज्येति दशमीमिति ।