आ स्मा॒ रथं॒ न पृत᳚नासु तिष्ठ॒ यं भ॒द्रया᳚ सुम॒त्या चो॒दया᳚से ॥
पदपाठः (Word-by-word)
आ । स्म॒ । रथ᳚म् । न । पृत᳚नासु । ति॒ष्ठ॒ । यम् । भ॒द्रया᳚ । सु॒॑म॒त्या । चो॒दया᳚से ॥
सायणभाष्यम् (Sayana Commentary)
स्वोजाः शोभनबलः इन्द्रः पृतनाः शत्रुसेनाः व्यानट् व्याप्नोति इन्द्रः संग्रामेषु केना- प्यप्रतिहन्यमानः सन् शत्रून् जयतीत्यर्थः । किञ्च पूर्वीः अत्र पूर्वशब्दउत्कृष्टवाची उत्कृष्टाः शत्रुसेनाः अप्रभवन्त्यः सत्यः अस्मै अस्येन्द्रस्य सख्याय संबंधित्वलक्षणाय सखित्वाय आयतंते संधिं कर्तुमिच्छन्तीत्यर्थः । अपरोर्धर्चः प्रत्यक्षकृतत्वात् भिन्नं वाक्यम् । हे इन्द्र त्वं यं स्वीयं रथं भद्रया कल्याण्या सुमत्या शोभनया परानुग्रहयाबुध्या चोदयासे चोदयसे यज्ञान् प्रति प्रेरयसि । तं रथमस्मद्यज्ञं प्रत्यागन्तुं महतादरेणातिष्ठ आरोह । तत्रदृष्टान्तः- पृतनासु संग्रामेषु रथं न यथा स्वरथं महतादरेणातिष्ठसि तद्वत् । स्मेति पादपूरणः ॥ ८ ॥
तृतीयेनुवाके त्रयोदशसूक्तानि तत्र प्रदेवत्रेति पञ्चदशर्चं प्रथमं सूक्तं इलूषपुत्रस्य कव- षस्यार्षं त्रैष्टुभमब्देवत्यं अपान्नपाद्देवताकं वा । तथाचानुक्रान्तं—प्रदेवत्रापञ्चोना कवषऎलू- षआपमपोनप्त्रीयं वेति । अपइष्यहोतरित्युक्तः सन् होता प्रदेवत्रेत्याद्यानवर्चोनुब्रूयात् । सूत्रितञ्च—प्रदेवत्राब्रह्मणेगातुरेत्विति नव हिनोतानोअध्वरंदेवयज्येति दशमीमिति ।