श्रवणम्

10.29.2
प्र ते᳚ अ॒स्या उ॒षस॒ः प्राप᳚रस्या नृ॒तौ स्या᳚म॒ नृत᳚मस्य नृ॒णाम् ।
अनु᳚ त्रि॒शोकः᳚ श॒तमाव᳚ह॒न्नॄन्कुत्से᳚न॒ रथो॒ यो अस᳚त्सस॒वान् ॥
▶ पदपाठः (Word-by-word)
प्र । ते॒ । अ॒स्याः । उ॒षसः᳚ । प्र । अप᳚रस्याः । नृ॒तौ । स्या॒म॒ । नृ॑त᳚मस्य । नृ॒णाम् ।
अनु᳚ । त्रि॒॑शोकः᳚ । श॒तम् । आ । अ॒व॒ह॒त्् । नॄन् । कुत्से᳚न । रथः᳚ । यः । अस᳚त् । स॒स॒॑वान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्यावर्तमानायाः ईदृश्याउषसः नृतौ नॄनये नयने प्रापणे उदयकाले इत्यर्थः नृणां नेतॄणां मध्ये नृतमस्य अतिशयेन नेतुस्ते तवेन्द्रस्य स्तुत्या यागेन च प्रस्याम वयं प्रकृ ष्टाभवेम । तथा हे इन्द्र अपरस्या आगामिन्याश्चोषसः नृतौ प्रापणे तव स्तुत्या यागेन च वयं प्रकृष्टाभवेमेत्याशास्महे । किञ्च त्रिशोकोनामऋषिः हे इन्द्र त्वामाराध्य त्वत्प्रसा दात् शतं बहून् अनु अनुचरभूतान् नॄन् मनुष्यानावहत् प्रापितवान् लब्धवानित्यर्थः । तथा तव कुत्सस्य च ससवान् सनिता युगपदेव संभक्ता योरथः असत् अस्ति तं रथं कुत्सो लब्धवानितिशॆषः । तथाच मन्त्रान्तरे श्रूयते—यासिकुत्सेनसरथमवस्युरिति । यस्मादेवं तस्मात् त्वत्प्रसादाद्वयं प्रकृष्टाभवेमेत्यर्थः ॥ २ ॥