श्रवणम्

10.29.7 समानपद
आ मध्वो᳚ अस्मा असिच॒न्नम᳚त्र॒मिन्द्रा᳚य पू॒र्णं स हि स॒त्यरा᳚धाः ।
स वा᳚वृधे॒ वरि᳚म॒न्ना पृ᳚थि॒व्या अ॒भि क्रत्वा॒ नर्य॒ः पौंस्यै᳚श्च ॥
▶ पदपाठः (Word-by-word)
आ । मध्वः᳚ । अ॒स्मै॒ । अ॒सि॒च॒न् । अम᳚त्रम् । इन्द्रा᳚य । पू॒र्णम् । सः । हि । स॒त्य॑रा᳚धाः ।
सः । व॒वृ॒धे॒ । वरि᳚मन् । आ । पृ॒थि॒व्याः । अ॒भि । क्रत्वा᳚ । नर्यः᳚ । पौंस्यैः᳚ । च॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्मै इन्द्राय अस्येन्द्रार्थं मधोव्मधुररसस्य सोमस्य पूर्णं अमत्रं ग्रहचमसादिकं पात्रं आअसिचन् असिञ्चन् आभिमुख्येन स्थित्वा परयाभक्त्या अस्मदीयाऋत्विजः सिक्तवन्तः अग्नौ प्रक्षिप्तवन्तः । हि यस्मात्कारणात्सइन्द्रः सत्यराधाः सत्यधनः यजमानेभ्योदातव्येना विसंवादिधनइत्यर्थः । तस्मादसिञ्चन्निति संबंधः । अग्नावासिक्तेन तेन पात्रेण तृप्तः सइन्द्रः पृथिव्याः अन्तरिक्षस्य वरिमन्नतिशयेन विस्तीर्णस्थाने आगत्य अभिववृधे अभिवर्धते । कीदृशइन्द्रः नर्यः नृभ्योहितः क्रत्वा वृत्रवधादिकर्मणा प्रज्ञानेनवा पौंस्यैश्च युक्तइतिशेषः ॥ ७ ॥