श्रवणम्

10.29.4
कदु᳚ द्यु॒म्नमि᳚न्द्र॒ त्वाव᳚तो॒ नॄन्कया᳚ धि॒या क᳚रसे॒ कन्न॒ आग᳚न् ।
मि॒त्रो न स॒त्य उ᳚रुगाय भृ॒त्या अन्ने᳚ समस्य॒ यदस᳚न्मनी॒षाः ॥
▶ पदपाठः (Word-by-word)
कत् । ऊं॒ इति᳚ । द्यु॒म्नम् । इ॒न्द्र॒ । त्वा॑व᳚तः । नॄन् । कया᳚ । धि॒या । क॒र॒से॒ । कत् । नः॒ । आ । अ॒ग॒न् ।
मि॒त्रः । न । स॒त्यः । उ॒रु॒॑गा॒य॒ । भृ॒त्यै । अन्ने᳚ । स॒म॒स्य॒ । यत् । अस᳚न् । म॒नी॒षाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं कदु कदा वा द्युम्नं हविर्लक्षणमस्मदीयमन्नं भुक्त्वेतिशेषः कया धिया के- न कर्मणा नॄन् नेतॄनस्मान् त्वावतः त्वत्सदृशान्करसे करिष्यसि । कत् कदा नोस्मान्प्रति आगन् आगमिष्यसि । सत्यः अनवद्यइत्यर्थः मित्रोन सखेव तथा हे उरुगाय बहुकीर्ते इन्द्र त्वं भृत्यै भरणाय पोषणाय भवसीति शेषः । यद्यदा समस्य अस्मदादिकस्य सर्वस्य जग तः अन्ने जगत्स्थितिनिमित्ते आहारे मनीषाः अत्राभिलषणाबुद्धयः असन् भवेयुः तदा सर्वस्य पोषणाय त्वं भवसीत्यर्थः ॥ ४ ॥