दशमं मण्डलम् - सूक्तम् 88

19 ऋचः

ऋषिः: मूर्धन्वानांगिरसो वामदेव्यो वा देवता: सूर्यवैश्वानरोग्नी छन्दः: त्रिष्टुप्

सूक्तम् 10.88 - सम्पूर्णम्

1 / 19
ऋक्: 10.88.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (19)
10.88.1 समानपद
ह॒विष्पान्त᳚म॒जरं᳚ स्व॒र्विदि᳚ दिवि॒स्पृश्याहु᳚तं॒ जुष्ट᳚म॒ग्नौ ।
तस्य॒ भर्म᳚णे॒ भुव᳚नाय दे॒वा धर्म᳚णे॒ कं स्व॒धया᳚ पप्रथन्त ॥
▶ पदपाठः (Word-by-word)
ह॒विः । पान्त᳚म् । अ॒जर᳚म् । स्वः॒॑विदि᳚ । दि॒वि॒॑स्पृशि᳚ । आ॑हु᳚तम् । जुष्ट᳚म् । अ॒ग्नौ ।
तस्य᳚ । भर्म᳚णे । भुव᳚नाय । दे॒वाः । धर्म᳚णे । कम् । स्व॒धया᳚ । प॒प्र॒थ॒न्त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हविष्पान्तमित्येकोनविंशत्युचं सूक्तं चतुर्थं त्रैष्टुभम्। मूर्धन्वानृषिः। स चाङ्गिरसो वामदेव्यो वा। सूर्यो वैश्वानरगुणकोऽग्निश्च समुदितो देवता। तथा चानुक्रान्तम्। हविरेकोनाङ्गिरसो मूर्धन्वान्वामदेव्यो वा सौर्यवैश्वानरीयमिति। व्यूढस्य दशरात्रस्य पञ्चमेऽहन्याग्निमारुत एतद्वैश्वानरीयनिविद्धानम्। सूत्रितं च। हविष्पान्तमग्निर्होता गृहपतिः स राजा। आ. ८-८। इति॥

पान्तं पानीयं सोमात्मकमजरं जरारहितं जुष्तं देवानां प्रियं यद्धविः स्वर्विदि सूर्यस्य वेदितरि दिविस्पृशि दिवि स्पष्टर्यग्नावाहुतमभिहुतं तस्य सोमात्मकस्य हविषो भर्मणे भरणाय भुवनाय भावनाय च धर्मणे धारनाय च कं सर्वस्य सुखकरमिममग्निं देवाः स्वधयान्नेन पप्रथन्त। प्रथयन्ति। तथा च यास्कः। हविर्यत्पानीयमजरं सूर्यविदि दिविस्पृश्यभिहुतं जुष्टमग्नौ तस्य भरणाय च भावनाय च धारणाय द्येतेभ्यः सर्वेभ्यः कर्मभ्यो देवा इममग्निमन्नेनापप्रथन्त। नि. ७-२५। इति॥१॥

10.88.2
गी॒र्णं भुव᳚नं॒ तम॒साप᳚गूळ्हमा॒विः स्व᳚रभवज्जा॒ते अ॒ग्नौ ।
तस्य᳚ दे॒वाः पृ᳚थि॒वी द्यौरु॒तापो॑र᳚णय॒न्नोष᳚धीः स॒ख्ये अ᳚स्य ॥
▶ पदपाठः (Word-by-word)
गी॒र्णम् । भुव᳚नम् । तम᳚सा । अप᳚॑गूळ्हम् । आ॒विः । स्वः᳚ । अ॒भ॒व॒त् । जा॒ते । अ॒ग्नौ ।
तस्य᳚ । दे॒वाः । पृ॒थि॒वी । द्यौः । उ॒त । आपः᳚ । अर᳚णयन् । ओष᳚धीः । स॒ख्ये । अ॒स्य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

गीर्णं पूर्वं निगीर्णं तमसन्धकारेणापगूढमाच्छादितं स्वः सर्वं भुवनमग्नौ यस्मिन्वैश्वानरे जात उत्पन्ने सत्याविरभवत् आविर्भवति तस्यास्य वैश्वानरस्याग्नेः सख्ये सखिकर्मणि देवा इन्द्रादयः पृथिवी भूमिश्च द्यौश्चापोऽन्तरिक्षं चोदकानि वौषधीरोषध्यश्चारणयत्। अरमन्त। प्रीतिं कृतवन्त इत्यर्थः॥२॥

10.88.3
दे॒वेभि॒र्न्वि᳚षि॒तो य॒ज्ञिये᳚भिर॒ग्निं स्तो᳚षाण्य॒जरं᳚ बृ॒हन्त᳚म् ।
यो भा॒नुना᳚ पृथि॒वीं द्यामु॒तेमामा᳚त॒तान॒ रोद᳚सी अ॒न्तरि᳚क्षम् ॥
▶ पदपाठः (Word-by-word)
दे॒वेभिः᳚ । नु । इ॒षि॒तः । य॒ज्ञिये᳚भिः । अ॒ग्निम् । स्तो॒षा॒णि॒ । अ॒जर᳚म् । बृ॒हन्त᳚म् ।
यः । भा॒नुना᳚ । पृ॒थि॒वीम् । द्याम् । उ॒त । इ॒माम् । आ॒॑त॒तान᳚ । रोद᳚सी॒ इति᳚ । अ॒न्तरि᳚क्षम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यज्ञियेभिर्यज्ञार्हैर्देवेभिर्देवैरिन्द्रादिभिर्नु क्षिप्रमिषितोऽहमजरं जरारहितं बृहन्तं महान्तमग्निं तं वैश्वानराग्निं स्तोषाणि। स्तॊषामि। यो वैश्वानराग्निर्भानुना तेजसा पृथिवीं भूमिमुतापि चेमां द्यां दिवं चाततान आतनोति। तदेव दर्शयति। रोदसी द्यावापृथिव्यौ चाततान अतनोति। विस्तारयतीत्यर्थः॥३॥

10.88.4
यो होतासी᳚त्प्रथ॒मो दे॒वजु᳚ष्टो॒ यं स॒माञ्ज॒न्नाज्ये᳚ना वृणा॒नाः ।
स प᳚त॒त्री᳚त्व॒रं स्था जग॒द्यच्छ्वा॒त्रम॒ग्निर᳚कृणोज्जा॒तवे᳚दाः ॥
▶ पदपाठः (Word-by-word)
यः । होता᳚ । आसी᳚त् । प्र॒थ॒मः । दे॒व॑जु᳚ष्टः । यम् । स॒म्॑आञ्ज᳚न् । आज्ये᳚न । वृ॒णा॒नाः ।
सः । प॒त॒त्रि । इ॒त्व॒रम् । स्थाः । जग᳚त् । यत् । श्वा॒त्रम् । अ॒ग्निः । अ॒कृ॒णो॒त् । जा॒त॑वे᳚दाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

यो वैश्वानरोऽग्निर्देवजुष्तो दैवैः सेवितः प्रथमो मुख्यो होतासीत् अभूत् यं च वैश्वानराग्निं यजमाना वृणाना आज्येन समाञ्जन् समज्ञति जातवेदा जातप्रज्ञो जातधनो वा वैश्वानरोऽग्निः पतत्रि पतनशीलं पक्षिजातमित्वरं गमनशीलं सरीसृपादिकं स्थाः स्थावरं वृक्षादिरूपं च जगत्। स्थावरं जङ्गमं च यज्जगदित्यर्थः। श्वात्रं क्षिप्रमेवाकृणोत् अजनयत्। तथा च यास्कः। स पतत्रि चेत्वरं स्थावरं जङ्गमं च यत्तत्क्षिप्रमग्निरकरोज्जातवेदाः। नि. ५-३। इति॥४॥

10.88.5
यज्जा᳚तवेदो॒ भुव᳚नस्य मू॒र्धन्नति᳚ष्ठो अग्ने स॒ह रो᳚च॒नेन᳚ ।
तं त्वा᳚हेम म॒तिभि᳚र्गी॒र्भिरु॒क्थैः स य॒ज्ञियो᳚ अभवो रोदसि॒प्राः ॥
▶ पदपाठः (Word-by-word)
यत् । जा॒त॒॑वे॒दः॒ । भुव᳚नस्य । मू॒र्धन् । अति᳚ष्ठः । अ॒ग्ने॒ । स॒ह । रो॒च॒नेन᳚ ।
तम् । त्वा॒ । अ॒हे॒म॒ । म॒ति॑भिः᳚ । गीः॒॑भिः । उ॒क्थैः । सः । य॒ज्ञियः᳚ । अ॒भ॒वः॒ । रो॒द॒सि॒॑प्राः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे जातवेदो जातप्रज्ञाग्ने यद्यस्त्वं भुवनस्य त्रैलोक्यस्य मूर्धन् मूर्धनि रोचनेनादित्येन सहातिष्ठः स्थितवानसि तम् वैश्वानराग्निं त्वा त्वां मतिभिरर्चनीयाभिर्गीभिः स्तुतिभिरुक्थैः शस्त्रैश्चाहेम। प्रपद्यामहे। हि गताविति धातुः। स वैश्वानरस्त्वं रोदसिप्रा द्यावापृथिव्योः पूरयित यज्ञियो यज्ञार्हश्चाभवः। भवसि॥५॥

10.88.6 समानपद
मू॒र्धा भु॒वो भ᳚वति॒ नक्त᳚म॒ग्निस्तत॒ः सूर्यो᳚ जायते प्रा॒तरु॒द्यन् ।
मा॒यामू॒ तु य॒ज्ञिया᳚नामे॒तामपो॒ यत्तूर्णि॒श्चर᳚ति प्रजा॒नन् ॥
▶ पदपाठः (Word-by-word)
मू॒र्धा । भु॒वः । भ॒व॒ति॒ । नक्त᳚म् । अ॒ग्निः । ततः᳚ । सूर्यः᳚ । जा॒य॒ते॒ । प्रा॒तः । उ॒त्॑यन् ।
मा॒याम् । ऊं॒ इति᳚ । तु । य॒ज्ञिया᳚नाम् । ए॒ताम् । अपः᳚ । यत् । तूर्णिः᳚ । चर᳚ति । प्र॒॑जा॒नन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्निर्वैश्वानरोऽग्निर्नक्तं रात्रौ भुवो भूतजातस्य मूर्धा शिरोवत्प्रधानभूतो भवति। रात्रौ सर्वप्राणिनामालोकस्य तदधीनत्वात्। ततो रात्रेरनन्तरं प्रातरुद्यन् सूर्योजायते। अहनि स एव वैश्वानरोऽग्निः सूर्यो भवतीत्यर्थः। किञ्च यज्ञियानां यज्ञसंपादिनां देवानां मायामु प्रज्ञामेवैतां मन्यन्ते कवय इति शेषः। यत्प्रजानन् प्रज्ञायमानः सूर्यस्तूर्णिस्त्वरमाणः सन्नपोऽन्तरिक्षं कर्म वा चरति। तथा च यास्कः। मूर्धा मूर्तमस्मिन्धीयते मूर्धा यः सर्वेषां भूतानां भवति नक्तमग्निस्ततः सूर्यो जायते प्रातरुद्यन्त्स एव प्रज्ञां त्वेतां मन्यन्ते यज्ञियानां देवानां यज्ञसम्पादिनामपो यत्कर्म चरति प्रजानन्त्सर्वाणि स्थानान्यनुसञ्चरति त्वरमाणः। नि. ७-२७। इति॥६॥

10.88.7
दृ॒शेन्यो॒ यो म᳚हि॒ना समि॒द्धो॑रो᳚चत दि॒वियो᳚निर्वि॒भावा᳚ ।
तस्मि᳚न्न॒ग्नौ सू᳚क्तवा॒केन᳚ दे॒वा ह॒विर्विश्व॒ आजु᳚हवुस्तनू॒पाः ॥
▶ पदपाठः (Word-by-word)
दृ॒शेन्यः᳚ । यः । म॒हि॒ना । सम्॑इ᳚द्धः । अरो᳚चत । दि॒वि॑यो᳚निः । वि॒भा॑वा᳚ ।
तस्मि᳚न् । अ॒ग्नौ । सू॒क्त॒॑वा॒केन᳚ । दे॒वाः । ह॒विः । विश्वे᳚ । आ । अ॒जु॒ह॒वुः॒ । त॒नू॒॑पाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

यो वैश्वानरोऽग्निर्महिना महत्त्वेन दृशेन्यः सर्वदर्शनीयः समिद्धः सम्यग्दीप्तो दिवियोनिर्द्युस्थानो विभावा दीप्तिमांश्च सन्नरोचत दीप्यते तस्मिन्वैश्वानरेऽग्नौ तनूपाः शरीराणां रक्षका विश्वे सर्वे देवाः सूक्तवाकेनेदं द्यावापृथिवी इत्यादिवाक्येन स्तोत्राणां वचनेन वा हविराजुहवुः। आभिमुख्येन जुहुवुः॥७॥

10.88.8
सू॒क्त॒वा॒कं प्र᳚थ॒ममादिद॒ग्निमादिद्ध॒विर᳚जनयन्त दे॒वाः ।
स ए᳚षां य॒ज्ञो अ᳚भवत्तनू॒पास्तं द्यौर्वे᳚द॒ तं पृ᳚थि॒वी तमापः᳚ ॥
▶ पदपाठः (Word-by-word)
सू॒क्त॒॑वा॒कम् । प्र॒थ॒मम् । आत् । इत् । अ॒ग्निम् । आत् । इत् । ह॒विः । अ॒ज॒न॒य॒न्त॒ । दे॒वाः ।
सः । ए॒षा॒म् । य॒ज्ञः । अ॒भ॒व॒त् । त॒नू॒॑पाः । तम् । द्यौः । वे॒द॒ । तम् । पृ॒थि॒वी । तम् । आपः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रथमं पूर्वं सूक्तवाकमिदं द्यावापृथिवी इत्यादि वाक्यं मनसा निरूपयन्ति। आदिदनन्तरमेवाग्निं मथनेनोत्पादयन्ति। आदिदनन्तरमेव देवा हविरजनयन्त। स वैश्वानरोऽग्निरेषां देवानां यज्ञो यष्टव्योऽभवत्। भवति। स तनूपाः शरीराणां रक्षिता च भवति। तमग्निं द्यौर्द्युलोको वेद। जानाति। तमग्निं पृथिवी भूमिरपि च जानाति। तमग्निमापोऽन्तरिक्षं च जानाति॥८॥

10.88.9
यं दे॒वासो॑ज᳚नयन्ता॒ग्निं यस्मि॒न्नाजु᳚हवु॒र्भुव᳚नानि॒ विश्वा᳚ ।
सो अ॒र्चिषा᳚ पृथि॒वीं द्यामु॒तेमामृ᳚जू॒यमा᳚नो अतपन्महि॒त्वा ॥
▶ पदपाठः (Word-by-word)
यम् । दे॒वासः᳚ । अज᳚नयन्त । अ॒ग्निम् । यस्मि᳚न् । आ । अजु᳚हवुः । भुव᳚नानि । विश्वा᳚ ।
सः । अ॒र्चिषा᳚ । पृ॒थि॒वीम् । द्याम् । उ॒त । इ॒माम् । ऋ॒जु॒॑यमा᳚नः । अ॒त॒प॒त् । म॒हि॒॑त्वा ॥
▶ सायणभाष्यम् (Sayana Commentary)

यं वैश्वानरमग्निं देवासो देवा अजनयन्त उत्पादितवन्तः यस्मिंश्चोत्पन्ने वैश्वानरेऽग्नौ विश्वा विश्वानि भुवनानि भूतान्याजुहवुः आभिमुख्येन जुहवुः सर्वमेधे स वैश्वानरोऽग्निरर्चिषा तेजसा पृथिवीमन्तरिक्षम् । आपः पृथिवीत्यन्तरिक्षनामसु पाठात्। द्यां दिवं चोतापि चेमां भूमिं चर्जूयमान ऋजुगमनो महित्वा महत्त्वेनातपत्। सर्वं तपति॥९॥

10.88.10
स्तोमे᳚न॒ हि दि॒वि दे॒वासो᳚ अ॒ग्निमजी᳚जन॒ञ्छक्ति᳚भी रोदसि॒प्राम् ।
तमू᳚ अकृण्वन्त्रे॒धा भु॒वे कं स ओष᳚धीः पचति वि॒श्वरू᳚पाः ॥
▶ पदपाठः (Word-by-word)
स्तोमे᳚न । हि । दि॒वि । दे॒वासः᳚ । अ॒ग्निम् । अजी᳚जनन् । शक्ति᳚॑भिः । रो॒द॒सि॒॑प्राम् ।
तम् । ऊं॒ इति᳚ । अ॒कृ॒ण्व॒न् । त्रे॒धा । भु॒वे । कम् । सः । ओष᳚धीः । प॒च॒ति॒ । वि॒श्व॑रू᳚पाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवासो देवाः शक्तिभिः कर्मभी रोदसिप्राम् द्यावापृथिव्योरापूरयितारमग्निं सुर्यात्मकं दिवि द्युलोके स्तोमेन हि स्तुत्या खल्विजीजनन्। उत्पादितवन्तः। अपिक् च तमु तमेव कं सुखकरमग्निं यज्ञे त्रेधा भुवे त्रेधाभावायाकृण्वन्। कुर्वन्ति। पृथिव्यां वर्तमानो विश्वरूपाः सर्वरूपा ओषधीर्व्रीह्याद्यास्तेन तेनोपकारेण पचति। अत्र यास्कः। स्तोमेन यं हि दिवि देवासोऽग्निमजनयञ्छक्तिभिः कर्मभिर्द्यावापृथिव्योः पूरणं तमकुर्वंस्त्रेधा भावाय पृथिव्यामन्तरिक्षे दिवीति शाकपूणिः। यदस्य दिवि तृतीयं तदसावादित्य इति हि ब्राह्मनम्। नि. ७-२८। इति॥१०॥

10.88.11
य॒देदे᳚न॒मद᳚धुर्य॒ज्ञिया᳚सो दि॒वि दे॒वाः सूर्य᳚मादिते॒यम् ।
य॒दा च᳚रि॒ष्णू मि᳚थु॒नावभू᳚ता॒मादित्प्राप᳚श्य॒न्भुव᳚नानि॒ विश्वा᳚ ॥
▶ पदपाठः (Word-by-word)
य॒दा । इत् । ए॒न॒म् । अद᳚धुः । य॒ज्ञिया᳚सः । दि॒वि । दे॒वाः । सूर्य᳚म् । आ॒दि॒ते॒यम् ।
य॒दा । च॒रि॒ष्णू इति᳚ । मि॒थु॒नौ । अभू᳚ताम् । आत् । इत् । प्र । अ॒प॒श्य॒न् । भुव᳚नानि । विश्वा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यदेद्यदैव प्रातरादितेयमदितेः पुत्रं सूर्यमेनमग्निं च यज्ञियासो यज्ञार्हा देवा दिवि द्युलोकेऽदधुः धृतवन्तः। यदा चेमौ चरिष्णू चरणशीलौ सूर्यवैश्वानरौ मिथुनावभूतां प्रादुरभूताम् । अदिदनन्तरमेव विश्वा विश्वानि भुवनानि भूतजातानि प्रापश्यन्। तौ पश्यन्ति। अत्र यास्कः। य दैनमदधुर्यज्ञियाः सर्वे दिवि देवाः सूर्यमदितेः पुत्रं यदा चरिष्णु मिथुनौ प्रादुरभूतां सर्वदा सहचारिणावुषाश्चादित्यश्च। मिथुनौ कस्मान्मिनोतिः श्रयतिकर्मा थु इति नामकरनस्थकारो वा नयतिः परो वनिर्वा समाश्रितावन्योन्यं नयतो वनुतो वा। मनुष्यमिथुनावप्येतस्मादेव मेथन्तावन्योन्यं वनुत इति वा। नि. ७-२९। इति॥११॥

10.88.12
विश्व᳚स्मा अ॒ग्निं भुव᳚नाय दे॒वा वै᳚श्वान॒रं के॒तुमह्ना᳚मकृण्वन् ।
आ यस्त॒तानो॒षसो᳚ विभा॒तीरपो᳚ ऊर्णोति॒ तमो᳚ अ॒र्चिषा॒ यन् ॥
▶ पदपाठः (Word-by-word)
विश्व᳚स्मै । अ॒ग्निम् । भुव᳚नाय । दे॒वाः । वै॒श्वा॒न॒रम् । के॒तुम् । अह्ना᳚म् । अ॒कृ॒ण्व॒न् ।
आ । यः । त॒तान᳚ । उ॒षसः᳚ । वि॒॑भा॒तीः । अपो॒ इति᳚ । ऊ॒र्णो॒ति॒ । तमः᳚ । अ॒र्चिषा᳚ । यन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवा इन्द्रादयो विश्वस्मै भुवनाय वैश्वानरं विश्वनरहितमग्निमह्नां दिवसानां केतुं प्रज्ञापकमकृण्वन्। अकुर्वन्। यो वैश्वानरोऽग्निरुषसो विभातीर्विविधं दीप्यमाना आ ततान विस्तारयति। किञ्च सोऽयं यन्गच्छंस्तमोऽन्धकारमर्चिषा तेजसापो ऊर्णोति। अपगमयति॥१२॥

10.88.13
वै॒श्वा॒न॒रं क॒वयो᳚ य॒ज्ञिया᳚सो॒॑ग्निं दे॒वा अ᳚जनयन्नजु॒र्यम् ।
नक्ष᳚त्रं प्र॒त्नममि᳚नच्चरि॒ष्णु य॒क्षस्याध्य᳚क्षं तवि॒षं बृ॒हन्त᳚म् ॥
▶ पदपाठः (Word-by-word)
वै॒श्वा॒न॒रम् । क॒वयः᳚ । य॒ज्ञियाः᳚ । अ॒ग्निम् । दे॒वाः । अ॒ज॒न॒य॒न् । अ॒जु॒र्यम् ।
नक्ष᳚त्रम् । प्र॒त्नम् । अमि᳚नत् । च॒रि॒ष्णु । य॒क्षस्य᳚ । अधि᳚॑अक्षम् । त॒वि॒षम् । बृ॒हन्त᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

कवयो मेधाविनो यज्ञियासो यज्ञार्हा यज्ञसंपादिनो वा देवा अजुर्यं जरावर्जितमहिंस्यं वा वैश्वानरम् विश्वनरहितं सूर्यात्मकमग्निमजनयन्। उत्पादितवन्तः। स च देवैरुत्पादितोऽग्निर्नक्षत्रं कृत्तिकादि प्रत्नह् पुराणं चरिष्णु चरणशीलं यक्शस्य। यक्षतिः पूजार्थः। प्रयक्षमित्यादौ दर्शनात्। ऋ. २-५-१। यक्षस्य पूज्यस्य देवस्याध्यक्षं प्रत्यक्शं स्वामिनं वा तविषम् वृद्ढं बृहन्तम् महान्तममिनत्। हिंसितवान्। तेजसाभिभूतवानित्यर्थः॥१३॥

10.88.14
वै॒श्वा॒न॒रं वि॒श्वहा᳚ दीदि॒वांसं॒ मन्त्रै᳚र॒ग्निं क॒विमच्छा᳚ वदामः ।
यो म᳚हि॒म्ना प᳚रिब॒भूवो॒र्वी उ॒तावस्ता᳚दु॒त दे॒वः प॒रस्ता᳚त् ॥
▶ पदपाठः (Word-by-word)
वै॒श्वा॒न॒रम् । वि॒श्वहा᳚ । दी॒दि॒॑वांस᳚म् । मन्त्रैः᳚ । अ॒ग्निम् । क॒विम् । अच्छ᳚ । व॒दा॒मः॒ ।
यः । म॒हि॒म्ना । प॒रि॒॑ब॒भूव᳚ । उ॒र्वी इति᳚ । उ॒त । अ॒वस्ता᳚त् । उ॒त । दे॒वः । प॒रस्ता᳚त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वाहा सर्वदा दीदिवांसम् दीप्तं कविं क्रान्तप्रज्ञं वैश्वानरमग्निं मन्त्रैरच्छा वदामः। अभिष्टुमः। यो वैश्वानरोऽग्निर्महिम्ना महत्त्वेनोर्वी द्यावापृथिव्यौ परिबभूव परिभवति। उतापि चायमवस्तादधस्तात्तपति। उतापि चायं सूर्यात्मको देवः परस्तादुपरिष्टाच्च तपतीत्यर्थः॥१४॥

10.88.15
द्वे स्रु॒ती अ᳚शृणवं पितॄ॒णाम॒हं दे॒वाना᳚मु॒त मर्त्या᳚नाम् ।
ताभ्या᳚मि॒दं विश्व॒मेज॒त्समे᳚ति॒ यद᳚न्त॒रा पि॒तरं᳚ मा॒तरं᳚ च ॥
▶ पदपाठः (Word-by-word)
द्वे इति᳚ । स्रु॒ती इति᳚ । अ॒शृ॒ण॒व॒म् । पि॒तॄ॒णाम् । अ॒हम् । दे॒वाना᳚म् । उ॒त । मर्त्या᳚नाम् ।
ताभ्या᳚म् । इ॒दम् । विश्व᳚म् । एज᳚त् । सम् । ए॒ति॒ । यत् । अ॒न्त॒रा । पि॒तर᳚म् । मा॒तर᳚म् । च॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पितॄणाम् देवानाम् चोतापि मर्त्यानां मनुष्याणां च द्वे स्रुती द्वौ मार्गौ देवयानपितृयाणाख्यावहमशृणवम् । अश्रौषम् । यद्विश्वं पालकत्वेन पितृभूतां द्यां मातरम् च धारकत्वेन मातृभूतां पृथिवीं चान्तरा द्यावापृथिवीमध्ये भवति तदिदं विश्वमग्निना संस्कृतं स देजद्देवलोकं पितृलोकं च गच्छत् तभ्यां देवयानपितृयाणाख्याभ्यां मार्गाभ्यां समेति। गच्छति। तौ च मार्गौ भवता दर्शितौ॥ भ. गी. ८-२४, २५, २६॥१५॥

10.88.16 समानपद
द्वे स᳚मी॒ची बि᳚भृत॒श्चर᳚न्तं शीर्ष॒तो जा॒तं मन᳚सा॒ विमृ᳚ष्टम् ।
स प्र॒त्यङ्विश्वा॒ भुव᳚नानि तस्था॒वप्र᳚युच्छन्त॒रणि॒र्भ्राज᳚मानः ॥
▶ पदपाठः (Word-by-word)
द्वे इति᳚ । स॒मी॒ची इति᳚ सम्॑ई॒ची । बि॒भृ॒तः॒ । चर᳚न्तम् । शी॒र्ष॒तः । जा॒तम् । मन᳚सा । वि॑मृ᳚ष्टम् ।
सः । प्र॒त्यङ् । विश्वा᳚ । भुव᳚नानि । त॒स्थौ॒ । अप्र᳚॑युच्छन् । त॒रणिः᳚ । भ्राज᳚मानः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्निर्ज्योतिरहः शुक्लः शण्मासा उत्तरायणम्। तत्र प्रयता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः॥

धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् । तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते॥

शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते। एकया यात्यनावृत्तिमन्यथा वर्तते पुनः॥

नैते सृती पार्थ जानन्योगी मुह्यति कश्चनेति॥

समीची सङ्गते द्वे द्यावापृथिव्यौ चरन्तं गच्छन्तं शीर्षतः शिरसो जातमुत्पन्नम् । तथा च निगमान्तरम् । उत मन्येऽहमेनमनयोर्हि शिरस्तोऽयं प्रातर्जायत इति। यद्वा। सर्वशिरोभूतादादित्याज्जातमित्यर्थः। मनसा। मन्यतिरर्चतिकर्मा। अर्चनीयया स्तुत्या विमृष्टं शोधितं संस्कृतमग्निं बिभृतः। धारयतः। सोऽप्रयुच्छन्नप्रमाद्यंस्तरनीः क्षिप्रकारी भ्राजमानो दीप्यमानोऽग्निर्विश्वानि भुवनानि प्रत्यङ्ङभिमुखस्तस्थौ। तिष्ठति। तथा च श्रूयते। तस्मात्सर्व एव मन्यन्ते मां प्रत्युदगादिति॥१६॥

10.88.17
यत्रा॒ वदे᳚ते॒ अव᳚र॒ः पर᳚श्च यज्ञ॒न्यो᳚ः कत॒रो नौ॒ वि वे᳚द ।
आ शे᳚कु॒रित्स᳚ध॒मादं॒ सखा᳚यो॒ नक्ष᳚न्त य॒ज्ञं क इ॒दं वि वो᳚चत् ॥
▶ पदपाठः (Word-by-word)
यत्र᳚ । वदे᳚ते॒ इति᳚ । अव᳚रः । परः᳚ । च॒ । य॒ज्ञ॒॑न्योः᳚ । क॒त॒रः । नौ॒ । वि । वे॒द॒ ।
आ । शे॒कुः॒ । इत् । स॒ध॒॑माद᳚म् । सखा᳚यः । नक्ष᳚न्त । य॒ज्ञम् । कः । इ॒दम् । वि । वो॒च॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यत्र यस्मिन्कालेऽवरः पार्थिवोऽग्निर्दैव्यो होता परश्च मध्यमो वाहुश्चोभौ वदेते विवादं कुर्वाते यज्ञन्योर्यज्ञस्य नेत्रोर्नावावयोर्मध्ये कतरो भूयिष्थं यज्ञं वि वेद वेत्ति तत्र सखायह् समानख्याना ऋत्विजः सधमादं यज्ञमा शेकुः। कर्तुं शक्नुवन्ति। तथा यज्ञं नक्षन्त अश्नुवतेऽनुतिष्ठन्ति च ये तेषां विदुषां यज्ञमश्नुवानानां मध्ये को विद्वाननुष्थाता वेदमस्य विवादस्य निर्णयरूपं वाक्यं वि वोचत्। ब्रविति। माध्यमिकमिममग्निं ब्रवीति। तथा च यास्कः। यत्र विवदेते देव्यौ होतारावयं चाग्निरसौ च मध्यमः करतो नौ यज्ञे भूयो वेदेत्याशक्नुवन्ति तत्सहमदनं समानख्याना ऋत्विजस्तेषां यज्ञं समश्नुवानानां को न इदं विवक्ष्यति। नि. ७-३०॥ इति॥ १७॥

10.88.18 समानपद
कत्य॒ग्नय॒ः कति॒ सूर्या᳚स॒ः कत्यु॒षास॒ः कत्यु᳚ स्वि॒दापः᳚ ।
नोप॒स्पिजं᳚ वः पितरो वदामि पृ॒च्छामि᳚ वः कवयो वि॒द्मने॒ कम् ॥
▶ पदपाठः (Word-by-word)
कति᳚ । अ॒ग्नयः᳚ । कति᳚ । सूर्या᳚सः । कति᳚ । उ॒षसः᳚ । कति᳚ । ऊं॒ इति᳚ । स्वि॒त् । आपः᳚ ।
न । उ॒प॒॑स्पिज᳚म् । वः॒ । पि॒त॒रः॒ । व॒दा॒मि॒ । पृ॒च्छामि᳚ । वः॒ । क॒व॒यः॒ । वि॒द्मने᳚ । कम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

एवं विवदमानावग्निवायू पितृन्प्रश्नमेयतुः। तत्र मध्यमस्तान्पृच्छति। क्त्यग्नयः। अग्नयः कति कतिसङ्ख्याकाः। सूर्यासः सूर्याश्च कतिसङ्ख्याकाः। उषास उषसश्च कतिसङ्ख्याकाः। आपश्च कति। उ इति पूरणः। स्विच्छब्दोऽत्र विचारणार्थः। हे पितरः वो युष्माकमुपस्पिजम् । उपस्पिजमिति स्पर्धायुक्तं वचनमुच्यते। पूर्वोक्तं प्रश्नवचनमेतन्न वदामि किन्तर्ह्यहमजानन् हे कवयो मेधाविनः युष्मान्विह्मने विज्ञानाय कं सुखं स्वरूपपर्यालोचन क्लेशमन्तरेण पृच्छामि। अत्रोत्रराणि वालखिल्य संहितायां दर्शितानि। एक एवाग्निर्बहुधा समिद्ध एकः सूर्यो विश्वमनु प्रभूतः। एकैवोषाः सर्वमिदं वि भात्येकं वा इदं वि बभूव सर्वम् । ऋ. ८-५--२। इति॥१८॥

10.88.19
या॒व॒न्मा॒त्रमु॒षसो॒ न प्रती᳚कं सुप॒र्ण्यो॒३॒᳚ वस᳚ते मातरिश्वः ।
ताव᳚द्दधा॒त्युप᳚ य॒ज्ञमा॒यन्ब्रा᳚ह्म॒णो होतु॒रव᳚रो नि॒षीद᳚न् ॥
▶ पदपाठः (Word-by-word)
या॒व॒त्॑मा॒त्रम् । उ॒षसः᳚ । न । प्रती᳚कम् । सु॒॑प॒र्ण्यः᳚ । वस᳚ते । मा॒त॒रि॒श्वः॒ ।
ताव᳚त् । द॒धा॒ति॒ । उप᳚ । य॒ज्ञम् । आ॒॑यन् । ब्रा॒ह्म॒णः । होतुः᳚ । अव᳚रः । नि॒॑सीद᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रकृतस्य वैश्वानरस्य विषये यः प्रश्नस्तस्य निर्णयमनया वदन्ति। हे वातरिश्वो मातर्यन्तरिक्षे श्वसन् माध्यमिक वायो यावन्मात्रं यावदेव सुपर्ण्यः सुपतना रात्रय उषसः प्रतीकं मुखं प्रकाशाख्यं दर्शणं वा। नेति पूरङः । वसते आच्छादयन्ति तावदेव ब्राह्मणो होतावरो निकृष्टो होतुरस्याग्नेर्वैश्वानरस्य दैव्यस्य होतुर्निषीदन् हौत्रं कर्म कर्तुमुपविशन् यज्ञमायन्नुपगच्छन्नुपदधाति। होतृकर्मस्वबुद्धौ धारयति। तथा च यास्कः। यावन्मात्रमुषसः प्रत्यक्तं भवति प्रतिदर्शनमिति वास्त्युपमानस्य सम्प्रत्यर्थे प्रयोग इहेव निधीहीति यथा सुपर्ण्यः सुपतना एता रात्रयो वसते मातरिश्वञ्ज्योतिर्वर्णस्य तावदुपदधाति यज्ञमागच्छन्ब्राह्मणो दोतास्याग्नेर्होतुरवरो निषीदन् होतृजपस्त्वनग्निर्वैश्वानरीयो भवति॥ नि. ७-३१॥ इति॥ १९॥