श्रवणम्

10.88.11
य॒देदे᳚न॒मद᳚धुर्य॒ज्ञिया᳚सो दि॒वि दे॒वाः सूर्य᳚मादिते॒यम् ।
य॒दा च᳚रि॒ष्णू मि᳚थु॒नावभू᳚ता॒मादित्प्राप᳚श्य॒न्भुव᳚नानि॒ विश्वा᳚ ॥
▶ पदपाठः (Word-by-word)
य॒दा । इत् । ए॒न॒म् । अद᳚धुः । य॒ज्ञिया᳚सः । दि॒वि । दे॒वाः । सूर्य᳚म् । आ॒दि॒ते॒यम् ।
य॒दा । च॒रि॒ष्णू इति᳚ । मि॒थु॒नौ । अभू᳚ताम् । आत् । इत् । प्र । अ॒प॒श्य॒न् । भुव᳚नानि । विश्वा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यदेद्यदैव प्रातरादितेयमदितेः पुत्रं सूर्यमेनमग्निं च यज्ञियासो यज्ञार्हा देवा दिवि द्युलोकेऽदधुः धृतवन्तः। यदा चेमौ चरिष्णू चरणशीलौ सूर्यवैश्वानरौ मिथुनावभूतां प्रादुरभूताम् । अदिदनन्तरमेव विश्वा विश्वानि भुवनानि भूतजातानि प्रापश्यन्। तौ पश्यन्ति। अत्र यास्कः। य दैनमदधुर्यज्ञियाः सर्वे दिवि देवाः सूर्यमदितेः पुत्रं यदा चरिष्णु मिथुनौ प्रादुरभूतां सर्वदा सहचारिणावुषाश्चादित्यश्च। मिथुनौ कस्मान्मिनोतिः श्रयतिकर्मा थु इति नामकरनस्थकारो वा नयतिः परो वनिर्वा समाश्रितावन्योन्यं नयतो वनुतो वा। मनुष्यमिथुनावप्येतस्मादेव मेथन्तावन्योन्यं वनुत इति वा। नि. ७-२९। इति॥११॥