श्रवणम्

10.88.6 समानपद
मू॒र्धा भु॒वो भ᳚वति॒ नक्त᳚म॒ग्निस्तत॒ः सूर्यो᳚ जायते प्रा॒तरु॒द्यन् ।
मा॒यामू॒ तु य॒ज्ञिया᳚नामे॒तामपो॒ यत्तूर्णि॒श्चर᳚ति प्रजा॒नन् ॥
▶ पदपाठः (Word-by-word)
मू॒र्धा । भु॒वः । भ॒व॒ति॒ । नक्त᳚म् । अ॒ग्निः । ततः᳚ । सूर्यः᳚ । जा॒य॒ते॒ । प्रा॒तः । उ॒त्॑यन् ।
मा॒याम् । ऊं॒ इति᳚ । तु । य॒ज्ञिया᳚नाम् । ए॒ताम् । अपः᳚ । यत् । तूर्णिः᳚ । चर᳚ति । प्र॒॑जा॒नन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्निर्वैश्वानरोऽग्निर्नक्तं रात्रौ भुवो भूतजातस्य मूर्धा शिरोवत्प्रधानभूतो भवति। रात्रौ सर्वप्राणिनामालोकस्य तदधीनत्वात्। ततो रात्रेरनन्तरं प्रातरुद्यन् सूर्योजायते। अहनि स एव वैश्वानरोऽग्निः सूर्यो भवतीत्यर्थः। किञ्च यज्ञियानां यज्ञसंपादिनां देवानां मायामु प्रज्ञामेवैतां मन्यन्ते कवय इति शेषः। यत्प्रजानन् प्रज्ञायमानः सूर्यस्तूर्णिस्त्वरमाणः सन्नपोऽन्तरिक्षं कर्म वा चरति। तथा च यास्कः। मूर्धा मूर्तमस्मिन्धीयते मूर्धा यः सर्वेषां भूतानां भवति नक्तमग्निस्ततः सूर्यो जायते प्रातरुद्यन्त्स एव प्रज्ञां त्वेतां मन्यन्ते यज्ञियानां देवानां यज्ञसम्पादिनामपो यत्कर्म चरति प्रजानन्त्सर्वाणि स्थानान्यनुसञ्चरति त्वरमाणः। नि. ७-२७। इति॥६॥