श्रवणम्

10.88.1 समानपद
ह॒विष्पान्त᳚म॒जरं᳚ स्व॒र्विदि᳚ दिवि॒स्पृश्याहु᳚तं॒ जुष्ट᳚म॒ग्नौ ।
तस्य॒ भर्म᳚णे॒ भुव᳚नाय दे॒वा धर्म᳚णे॒ कं स्व॒धया᳚ पप्रथन्त ॥
▶ पदपाठः (Word-by-word)
ह॒विः । पान्त᳚म् । अ॒जर᳚म् । स्वः॒॑विदि᳚ । दि॒वि॒॑स्पृशि᳚ । आ॑हु᳚तम् । जुष्ट᳚म् । अ॒ग्नौ ।
तस्य᳚ । भर्म᳚णे । भुव᳚नाय । दे॒वाः । धर्म᳚णे । कम् । स्व॒धया᳚ । प॒प्र॒थ॒न्त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हविष्पान्तमित्येकोनविंशत्युचं सूक्तं चतुर्थं त्रैष्टुभम्। मूर्धन्वानृषिः। स चाङ्गिरसो वामदेव्यो वा। सूर्यो वैश्वानरगुणकोऽग्निश्च समुदितो देवता। तथा चानुक्रान्तम्। हविरेकोनाङ्गिरसो मूर्धन्वान्वामदेव्यो वा सौर्यवैश्वानरीयमिति। व्यूढस्य दशरात्रस्य पञ्चमेऽहन्याग्निमारुत एतद्वैश्वानरीयनिविद्धानम्। सूत्रितं च। हविष्पान्तमग्निर्होता गृहपतिः स राजा। आ. ८-८। इति॥

पान्तं पानीयं सोमात्मकमजरं जरारहितं जुष्तं देवानां प्रियं यद्धविः स्वर्विदि सूर्यस्य वेदितरि दिविस्पृशि दिवि स्पष्टर्यग्नावाहुतमभिहुतं तस्य सोमात्मकस्य हविषो भर्मणे भरणाय भुवनाय भावनाय च धर्मणे धारनाय च कं सर्वस्य सुखकरमिममग्निं देवाः स्वधयान्नेन पप्रथन्त। प्रथयन्ति। तथा च यास्कः। हविर्यत्पानीयमजरं सूर्यविदि दिविस्पृश्यभिहुतं जुष्टमग्नौ तस्य भरणाय च भावनाय च धारणाय द्येतेभ्यः सर्वेभ्यः कर्मभ्यो देवा इममग्निमन्नेनापप्रथन्त। नि. ७-२५। इति॥१॥