श्रवणम्

10.88.15
द्वे स्रु॒ती अ᳚शृणवं पितॄ॒णाम॒हं दे॒वाना᳚मु॒त मर्त्या᳚नाम् ।
ताभ्या᳚मि॒दं विश्व॒मेज॒त्समे᳚ति॒ यद᳚न्त॒रा पि॒तरं᳚ मा॒तरं᳚ च ॥
▶ पदपाठः (Word-by-word)
द्वे इति᳚ । स्रु॒ती इति᳚ । अ॒शृ॒ण॒व॒म् । पि॒तॄ॒णाम् । अ॒हम् । दे॒वाना᳚म् । उ॒त । मर्त्या᳚नाम् ।
ताभ्या᳚म् । इ॒दम् । विश्व᳚म् । एज᳚त् । सम् । ए॒ति॒ । यत् । अ॒न्त॒रा । पि॒तर᳚म् । मा॒तर᳚म् । च॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पितॄणाम् देवानाम् चोतापि मर्त्यानां मनुष्याणां च द्वे स्रुती द्वौ मार्गौ देवयानपितृयाणाख्यावहमशृणवम् । अश्रौषम् । यद्विश्वं पालकत्वेन पितृभूतां द्यां मातरम् च धारकत्वेन मातृभूतां पृथिवीं चान्तरा द्यावापृथिवीमध्ये भवति तदिदं विश्वमग्निना संस्कृतं स देजद्देवलोकं पितृलोकं च गच्छत् तभ्यां देवयानपितृयाणाख्याभ्यां मार्गाभ्यां समेति। गच्छति। तौ च मार्गौ भवता दर्शितौ॥ भ. गी. ८-२४, २५, २६॥१५॥