श्रवणम्

10.88.3
दे॒वेभि॒र्न्वि᳚षि॒तो य॒ज्ञिये᳚भिर॒ग्निं स्तो᳚षाण्य॒जरं᳚ बृ॒हन्त᳚म् ।
यो भा॒नुना᳚ पृथि॒वीं द्यामु॒तेमामा᳚त॒तान॒ रोद᳚सी अ॒न्तरि᳚क्षम् ॥
▶ पदपाठः (Word-by-word)
दे॒वेभिः᳚ । नु । इ॒षि॒तः । य॒ज्ञिये᳚भिः । अ॒ग्निम् । स्तो॒षा॒णि॒ । अ॒जर᳚म् । बृ॒हन्त᳚म् ।
यः । भा॒नुना᳚ । पृ॒थि॒वीम् । द्याम् । उ॒त । इ॒माम् । आ॒॑त॒तान᳚ । रोद᳚सी॒ इति᳚ । अ॒न्तरि᳚क्षम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यज्ञियेभिर्यज्ञार्हैर्देवेभिर्देवैरिन्द्रादिभिर्नु क्षिप्रमिषितोऽहमजरं जरारहितं बृहन्तं महान्तमग्निं तं वैश्वानराग्निं स्तोषाणि। स्तॊषामि। यो वैश्वानराग्निर्भानुना तेजसा पृथिवीं भूमिमुतापि चेमां द्यां दिवं चाततान आतनोति। तदेव दर्शयति। रोदसी द्यावापृथिव्यौ चाततान अतनोति। विस्तारयतीत्यर्थः॥३॥