पृ॒णी॒यादिन्नाध᳚मानाय॒ तव्या॒न्द्राघी᳚यांस॒मनु᳚ पश्येत॒ पन्था᳚म् ।
ओ हि वर्त᳚न्ते॒ रथ्ये᳚व च॒क्रान्यम᳚न्य॒मुप᳚ तिष्ठन्त॒ रायः᳚ ॥
ओ हि वर्त᳚न्ते॒ रथ्ये᳚व च॒क्रान्यम᳚न्य॒मुप᳚ तिष्ठन्त॒ रायः᳚ ॥
पदपाठः (Word-by-word)
पृ॒णी॒यात् । इत् । नाध᳚मानाय । तव्या᳚न् । द्राघी᳚यांसम् । अनु᳚ । प॒श्ये॒त॒ । पन्था᳚म् ।
ओ इति᳚ । हि । वर्त᳚न्ते । रथ्या᳚॑इव । च॒क्रा । अ॒न्यम्॑अ᳚न्यम् । उप᳚ । ति॒ष्ठ॒न्त॒ । रायः᳚ ॥
ओ इति᳚ । हि । वर्त᳚न्ते । रथ्या᳚॑इव । च॒क्रा । अ॒न्यम्॑अ᳚न्यम् । उप᳚ । ति॒ष्ठ॒न्त॒ । रायः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
धनवन्तं पुरुषं दाने प्रेरयति। तव्याम्स्तवीयान्धनैरतिशयेन प्रवृद्धः पुरुषो नाधमानाय याचमानायातिथये पृणीयादित्। धनानि दद्यादेव। पॄ पालनपूरनयोः क्र्यादिः। प्वादीनां ह्रस्वः। यदि दद्यात् द्राघीयांसम् । दीर्घशब्दादीयसुनि प्रियस्थिरेत्यादिना द्राघीत्यादेशः। दीर्घतमं पन्थां पन्थानं सुकृतमार्गमनु पश्येत। अनुपश्येत्। व्यत्ययेनात्मनेपदम्। तत्र कारणमाह। रायो धन्नन्यो हि। आ उ। अवर्तन्ते खलु। एकत्र न तिष्ठन्तीत्यर्थः। तत्र दृष्टान्तः। रथ्येव यथा रथ्यानि। रथाद्यत्। पा. ४-३-१२१-। इति तस्येदमित्यर्थे यत्। रथ सम्बन्धीनि चक्राण्युपर्यधोभावेनावर्तन्ते तद्वदावृत्तिमेव दर्शय्ति। अन्यमन्यं पुरुषं धनान्युप तिष्ठन्त। उपतिष्ठन्ते। समवेतानि भवन्ति। उपाद्देवपूजासङ्गतिकरनेति। का. १-३-२५-१। आत्मनेपदम्। तस्माद्धनानि देयानीति भावः॥५॥