शं नो᳚ दे॒वीर॒भिष्ट᳚य॒ आपो᳚ भवन्तु पी॒तये᳚ ।
शं योर॒भि स्र᳚वन्तु नः ॥
शं योर॒भि स्र᳚वन्तु नः ॥
पदपाठः (Word-by-word)
शम् । नः॒ । दे॒वीः । अ॒भिष्ट᳚ये । आपः᳚ । भ॒व॒न्तु॒ । पी॒तये᳚ ।
शम् । योः । अ॒भि । स्र॒व॒न्तु॒ । नः॒ ॥
शम् । योः । अ॒भि । स्र॒व॒न्तु॒ । नः॒ ॥
सायणभाष्यम् (Sayana Commentary)
नोस्माकं पापापनोदद्वारेण शं सुखं भवन्तु देवीर्देव्यः आपः अभिष्टये अस्मद्यज्ञाय भ- वन्तु यज्ञांगभावायच भवन्तुइत्यर्थः । पीतये पानायच भवन्तु । तथा शं उत्पन्नानां रो- गाणां शमनं योः यावनं अनुत्पन्नानां पृथक्करणं च कुर्वन्तु । अपिच नोस्माकं अभि अप- रि स्रवन्तु शुध्यर्थं सिंचन्तु ॥ ४ ॥