श्रवणम्

10.121.2
य आ᳚त्म॒दा ब᳚ल॒दा यस्य॒ विश्व᳚ उ॒पास᳚ते प्र॒शिषं॒ यस्य᳚ दे॒वाः ।
यस्य᳚ छा॒यामृतं॒ यस्य᳚ मृ॒त्युः कस्मै᳚ दे॒वाय᳚ ह॒विषा᳚ विधेम ॥
▶ पदपाठः (Word-by-word)
यः । आ॒त्म॒॑दाः । ब॒ल॒॑दाः । यस्य᳚ । विश्वे᳚ । उ॒प॒॑आस᳚ते । प्र॒॑शिष᳚म् । यस्य᳚ । दे॒वाः ।
यस्य᳚ । छा॒या । अ॒मृत᳚म् । यस्य᳚ । मृ॒त्युः । कस्मै᳚ । दे॒वाय᳚ । ह॒विषा᳚ । वि॒धे॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यः प्रजापतिरात्मदा आत्मनां दाता। आत्मानो हि सर्वे तस्मात्परमात्मन उत्पद्यन्ते। यथाग्नेः सकाशाद्विस्फुलिङ्गा जायन्ते तद्वत्। यद्वा। आत्मनां शोधयिता। दैप् शोधने। आतो मनिन्निति विच्। बलदा बलस्य च दाता शोधयिता वा। यस्य च प्रशिषं प्रकृष्टं शासन्स्माज्ञां विश्वे सर्वे प्राणिन उपासते प्रार्थयन्ते सेवन्ते वा। शासु अनुशिष्टौ। शास इत्। पा. ६-४-३४। इत्युपधया इत्वम् । शासिवसिघसीनां चेति शत्वम्। क्रुदुत्तरपदप्रकृतिस्वरत्वम्। आसेरनुदात्तेत्वाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः। तिङि चोदात्तवतिति गतिरनुदात्ता। तथा देवा अपि यस्य प्रशासनमुपासते। अपि चामृतममृतत्वम्। भावप्रधानो निर्देशः। यद्वा। अमृतम्। मरनं नास्त्यस्मिन्नित्यमृतं सुधा। बहुव्रीहौ नञो जरमरमित्रमृता इत्युत्तरपदाद्युदात्तत्वम्। तदपि यस्य प्रजापतेश्छाया छायेव वर्ति भवति। मृत्युर्यमश्च प्राणापहारी छायेव भवति। तस्मै कस्मै देवायेत्यादि समानं पूर्वेण हविषा पुरोडाशात्मनेति तु विशेषः॥२॥