इ॒मा अ᳚ग्ने म॒तय॒स्तुभ्यं᳚ जा॒ता गोभि॒रश्वै᳚र॒भि गृ᳚णन्ति॒ राधः᳚ ।
य॒दा ते॒ मर्तो॒ अनु॒ भोग॒मान॒ड्वसो॒ दधा᳚नो म॒तिभि᳚ः सुजात ॥
य॒दा ते॒ मर्तो॒ अनु॒ भोग॒मान॒ड्वसो॒ दधा᳚नो म॒तिभि᳚ः सुजात ॥
पदपाठः (Word-by-word)
इ॒माः । अ॒ग्ने॒ । म॒तयः᳚ । तुभ्य᳚म् । जा॒ताः । गोभिः᳚ । अश्वैः᳚ । अ॒भि । गृ॒ण॒न्ति॒ । राधः᳚ ।
य॒दा । ते॒ । मर्तः᳚ । अनु᳚ । भोग᳚म् । आन᳚ट् । वसो॒ इति᳚ । दधा᳚नः । म॒ति॑भिः᳚ । सु॒॑जा॒त॒ ॥
य॒दा । ते॒ । मर्तः᳚ । अनु᳚ । भोग᳚म् । आन᳚ट् । वसो॒ इति᳚ । दधा᳚नः । म॒ति॑भिः᳚ । सु॒॑जा॒त॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने इमा ईदृश्यः मतयः स्तुतयः तुभ्यं त्वदर्थं जाताः अस्मदादिस्तोतृमुखात् उत्प न्ना उच्चारिताइत्यर्थः गोभिरश्वैश्च सहितं राधः त्वया दीयमानं हिरण्यादिकं धनं अभिगृ- णन्ति अभिष्टुवन्ति । अस्मत्स्तुत्यनुरूपान्नमस्मभ्यं त्वया दत्तमिति प्रशंसन्ति यदा मर्तोस्म- दादिकोमनुष्यः ते त्वया दीयमानं भोगं भोगार्हं धनं अन्वानट् प्राप्नोति लभते तदा हे वसो प्रशस्य वसुमन् यद्वा स्वेन तेजसा सर्वस्याच्छादयितः हे सुजात शोभनकर्मार्थमुत्प- न्नाग्ने त्वं दधानोस्मभ्यं धनं प्रयच्छन् मतिभिरस्मदीयाभिः स्तूयसे इतिशेषः ॥ २ ॥