द्युभि᳚र्हि॒तं मि॒त्रमि᳚व प्र॒योगं᳚ प्र॒त्नमृ॒त्विज᳚मध्व॒रस्य᳚ जा॒रम् ।
बा॒हुभ्या᳚म॒ग्निमा॒यवो᳚॑जनन्त वि॒क्षु होता᳚रं॒ न्य᳚सादयन्त ॥
बा॒हुभ्या᳚म॒ग्निमा॒यवो᳚॑जनन्त वि॒क्षु होता᳚रं॒ न्य᳚सादयन्त ॥
पदपाठः (Word-by-word)
द्यु॑भिः᳚ । हि॒तम् । मि॒त्रम्॑इ᳚व । प्र॒॑योग᳚म् । प्र॒त्नम् । ऋ॒त्विज᳚म् । अ॒ध्व॒रस्य᳚ । जा॒रम् ।
बा॒हु॑भ्या᳚म् । अ॒ग्निम् । आ॒यवः᳚ । अ॒ज॒न॒न्त॒ । वि॒क्षु । होता᳚रम् । नि । अ॒सा॒द॒य॒न्त॒ ॥
बा॒हु॑भ्या᳚म् । अ॒ग्निम् । आ॒यवः᳚ । अ॒ज॒न॒न्त॒ । वि॒क्षु । होता᳚रम् । नि । अ॒सा॒द॒य॒न्त॒ ॥
सायणभाष्यम् (Sayana Commentary)
द्युभिर्हितं दीप्तैराहितं मित्रमिवस्निग्धमिव प्रयोगं प्रयोक्तव्यं प्रत्नं पुराणं ऋत्विजं हो- तृसंज्ञकम् । अग्निर्वैदेवानांहोतासीदितिश्रुतेः । अध्वरस्य यज्ञस्य जारं समापयितारं एवंभूत- मग्निं आयवोयजमानाः मनुष्याः बाहुभ्यामजनन्त जनितवन्तः । किंच विक्षु विशोमनुष्याः तदाकारेषु देवेष्वित्यर्थः होतारं आह्वातारं न्यसादयन्त नियमेन सादितवन्तः देवानां यागार्थं निरूपितवन्तइत्यर्थः ॥ ५ ॥