मि॒त्राय᳚ शिक्ष॒ वरु᳚णाय दा॒शुषे॒ या स॒म्राजा॒ मन᳚सा॒ न प्र॒युच्छ᳚तः ।
ययो॒र्धाम॒ धर्म᳚णा॒ रोच᳚ते बृ॒हद्ययो᳚रु॒भे रोद᳚सी॒ नाध᳚सी॒ वृतौ᳚ ॥
ययो॒र्धाम॒ धर्म᳚णा॒ रोच᳚ते बृ॒हद्ययो᳚रु॒भे रोद᳚सी॒ नाध᳚सी॒ वृतौ᳚ ॥
पदपाठः (Word-by-word)
मि॒त्राय᳚ । शि॒क्ष॒ । वरु᳚णाय । दा॒शुषे᳚ । या । स॒म्॑राजा᳚ । मन᳚सा । न । प्र॒॑युच्छ᳚तः ।
ययोः᳚ । धाम᳚ । धर्म᳚णा । रोच᳚ते । बृ॒हत् । ययोः᳚ । उ॒भे इति᳚ । रोद᳚सी॒ इति᳚ । नाध᳚सी॒ इति᳚ । वृतौ᳚ ॥
ययोः᳚ । धाम᳚ । धर्म᳚णा । रोच᳚ते । बृ॒हत् । ययोः᳚ । उ॒भे इति᳚ । रोद᳚सी॒ इति᳚ । नाध᳚सी॒ इति᳚ । वृतौ᳚ ॥
सायणभाष्यम् (Sayana Commentary)
दाशुषे धनानि स्तोतृभ्यः प्रयच्छते मित्राय वरुणाय च शिक्ष। हवींषि प्रयच्छ। शिक्षतिर्दानकर्मा। सम्राजा सम्राजौ सर्वस्य या यौ मित्रावरुनौ मनसान्तः करणेनापि न प्रयुच्छतह् न प्रमाद्यतः किमुत वाह्येन व्यापारेण। यच्छप्रमादे। भौवादिकः। ययोर्मित्रावरुणयोर्ब्रुहद्महद्धाम शरीरं धर्मणात्मीयेन लोकप्रकाशकाशनादिलक्षणेन कर्मणा रोचते सम्यग्दीप्यते। ययोश्च नाधसी। णाधृ याज्ञोपतापैश्वर्याशिःषु। याचमाने उभे रोदसी द्यावापृथिव्यौ वृतौ वर्तमाने भवतः। यद्वा। नाधसी देवमनुष्यैः समृद्धे द्यावापृथिव्यौ। तयोर्वृतौ वर्तमाने भवतः। तदधीने भवत इत्यर्थः॥५॥