श्रवणम्

10.65.14
विश्वे᳚ दे॒वाः स॒ह धी॒भिः पुरं᳚ध्या॒ मनो॒र्यज᳚त्रा अ॒मृता᳚ ऋत॒ज्ञाः ।
रा॒ति॒षाचो᳚ अभि॒षाचः᳚ स्व॒र्विद॒ः स्व१॒᳚र्गिरो॒ ब्रह्म᳚ सू॒क्तं जु᳚षेरत ॥
▶ पदपाठः (Word-by-word)
विश्वे᳚ । दे॒वाः । स॒ह । धी॒भिः । पुर᳚म्॑ध्या । मनोः᳚ । यज᳚त्राः । अ॒मृताः᳚ । ऋ॒त॒॑ज्ञाः ।
रा॒ति॒॑साचः᳚ । अ॒भि॒॑साचः᳚ । स्वः॒॑विदः᳚ । स्वः᳚ । गिरः᳚ । ब्रह्म᳚ । सु॒॑उ॒क्तम् । जु॒षे॒र॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

धीभिः कर्मभिः सहिताः पुरन्ध्या प्रज्ञानेन युक्ता मनोर्मनुष्यस्य यज्ञे यजत्रा यष्टव्या अमृता मरणधर्मरहिता ऋतज्ञाः सत्यविदो रातिषाचो दीयमानं हविः सेवमाना अभिषाच आभिमुख्येन यज्ञं समवयन्तः सङ्गतवन्तः स्वर्विदः सर्वस्य लम्भका विश्वे सर्व इन्द्रादयो देवाः स्वः सर्वा गिरोऽस्मदीयाः स्तुतीर्ब्रह्म महच्चान्नम् सूक्तं सुष्ठु वक्तव्यम् स्तोमं यद्वा सुष्ठु मन्त्रेण सह दत्तमन्नं जुषेरत। सेवन्ताम्। जुषी प्रीतिसेवनयोः। तौदादिकः। अनुदात्तेत्। लिङि झस्य रनादेशाभावश्छान्दसः। बहुलं छन्दसीति रुडागमः॥१४॥