श्रवणम्

10.127.5
नि ग्रामा᳚सो अविक्षत॒ नि प॒द्वन्तो॒ नि प॒क्षिणः᳚ ।
नि श्ये॒नास᳚श्चिद॒र्थिनः᳚ ॥
▶ पदपाठः (Word-by-word)
नि । ग्रामा᳚सः । अ॒वि॒क्ष॒त॒ । नि । प॒त्॑वन्तः᳚ । नि । प॒क्षिणः᳚ ।
नि । श्ये॒नासः᳚ । चि॒त् । अ॒र्थिनः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ग्रामासो ग्रामाः। अत्र गामशब्दो रात्रावागतायां निविशन्ते। शेरते। निपूर्वाद्विशतेश्छान्दसे लुङि पूर्ववदात्मनेपदम्। शल इगुपधादनिटः क्सः। पा. ३-१४-५। क्सस्याचि। पा. ७-३-७२। इत्याकारलोपः। तथा पद्वन्तः पादयुक्ता गवाश्वादयश्च निविशन्ते। तथा पक्षिणः पक्षोपेताश्च निविशन्ते। अर्थिनः। अर्तेरर्थो गमनम्। शीघ्रगमनयुक्ताः श्येनासश्चिच्छ्येना अपि तस्यां रात्र्यां निविशन्ते। एषा रात्रिः सर्वाणि भूतजातान्यहनि सञ्चारेण श्रान्तानि स्वयमागत्य सुखयतीत्यर्थः॥५॥