श्रवणम्

10.100.1
इन्द्र॒ दृह्य᳚ मघव॒न्त्वाव॒दिद्भु॒ज इ॒ह स्तु॒तः सु᳚त॒पा बो᳚धि नो वृ॒धे ।
दे॒वेभि᳚र्नः सवि॒ता प्राव᳚तु श्रु॒तमा स॒र्वता᳚ति॒मदि᳚तिं वृणीमहे ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚ । दृह्य᳚ । म॒घ॒॑व॒न् । त्वा॑व᳚त् । इत् । भु॒जे । इ॒ह । स्तु॒तः । सु॒त॒॑पाः । बो॒धि॒ । नः॒ । वृ॒धे ।
दे॒वेभिः᳚ । नः॒ । स॒वि॒ता । प्र । अ॒व॒तु॒ । श्रु॒तम् । आ । स॒र्व॑ता᳚तिम् । अदि᳚तिम् । वृ॒णी॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नवमेऽनुवाके त्रयोदश सूक्तानि। तत्रेन्द्र दृह्येति द्वादशर्चं प्रथमं सूक्तं वन्दनपुत्रस्य दुवस्योरार्षं वैश्वदेवम्। द्वादशी त्रिष्टुप्। शिष्टा जगत्यः तथा चानुक्रान्तम्। इन्द्र दवस्युर्वान्दनो वैश्वदेवं त्वंत्या त्रिष्टुबिति। गतो विनियोगः॥

हे इन्द्र मघवन्धनवन् त्वं त्वावदित् त्वत्सदृशमेव शत्रुबलं दृह्य मारय। किमर्थम् । भुजेऽस्माकं भोगाय। तदर्थमिहास्मिन्यज्ञे स्तुतः सन् सुतपाः सुतस्याभिषुतस्य सोमस्य पाता बोधि। बुध्यस्व। भवेत्यर्थः। किमर्थम् । नोऽस्माकं व्रुधे वर्धनाय। किञ्च देवेभिर्देवैः सह नोऽस्माकं श्रुतं विश्रुतं यज्ञं सविता सर्वस्य स्वस्वकर्मसु प्रेरको देवः प्रावतु। प्ररक्शतु। किञ्च सर्वतातिम् । स्वार्थिकस्तातिल्। सर्वां सर्वात्मिकाम्। यद्वा। सर्वे तायन्तेऽस्यामिति र्सतातिः। छान्दसो दीर्घः। तादृशीमदितिमुखण्डनीयां देवमातरमा व्रुणीमहे॥१॥