श्रवणम्

10.18.9
धनु॒र्हस्ता᳚दा॒ददा᳚नो मृ॒तस्या॒स्मे क्ष॒त्राय॒ वर्च᳚से॒ बला᳚य ।
अत्रै॒व त्वमि॒ह व॒यं सु॒वीरा॒ विश्वा॒ः स्पृधो᳚ अ॒भिमा᳚तीर्जयेम ॥
▶ पदपाठः (Word-by-word)
धनुः᳚ । हस्ता᳚त् । आ॒॑ददा᳚नः । मृ॒तस्य᳚ । अ॒स्मे इति᳚ । क्ष॒त्राय᳚ । वर्च᳚से । बला᳚य ।
अत्र᳚ । ए॒व । त्वम् । इ॒ह । व॒यम् । सु॒॑वीराः᳚ । विश्वाः᳚ । स्पृधः᳚ । अ॒भि॑मा᳚तीः । ज॒ये॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मृतस्य क्षत्रियस्य हस्तात् धनुराददानः किमर्थं अस्मै अस्माकं क्षत्राय प्रजापालनस- मर्थाय बलाय वर्चसे तेजसे बलाय सेनालक्षणाय च धनुराददानोहं ब्रवीमीति शेषः किमिति त्वं अत्रैवास्मिन् स्थाने एव भव । वयं च इहास्मिन् लोके सुवीराः सुपुत्रयुक्ता- भवन्तः विश्वाः सर्वान् अभिमातीः अभिमन्यमानान् स्पृधः संघर्षयित्रीन् बाधकान् शत्रून् जयेम सहेमहि ॥ ९ ॥ दीक्षितमरणे उपसर्पमातरमित्याद्याश्चतस्रः शंसनीयाः । सूत्रितंच—उपसर्पमातरंभूमि मेतामितिचतस्रः सोमएकेभ्यइति । उपसर्पेत्यनया संचितान्यस्थीनिगर्तेनिदध्युः ।