यथाहा᳚न्यनुपू॒र्वं भव᳚न्ति॒ यथ᳚ ऋ॒तव᳚ ऋ॒तुभि॒र्यन्ति᳚ सा॒धु ।
यथा॒ न पूर्व॒मप᳚रो॒ जहा᳚त्ये॒वा धा᳚त॒रायूं᳚षि कल्पयैषाम् ॥
यथा॒ न पूर्व॒मप᳚रो॒ जहा᳚त्ये॒वा धा᳚त॒रायूं᳚षि कल्पयैषाम् ॥
पदपाठः (Word-by-word)
यथा᳚ । अहा᳚नि । अ॒नु॒॑पू॒र्वम् । भव᳚न्ति । यथा᳚ । ऋ॒तवः᳚ । ऋ॒तु॑भिः᳚ । यन्ति᳚ । सा॒धु ।
यथा᳚ । न । पूर्व᳚म् । अप᳚रः । जहा᳚ति । ए॒व । धा॒तः॒ । आयूं᳚षि । क॒ल्प॒य॒ । ए॒षाम् ॥
यथा᳚ । न । पूर्व᳚म् । अप᳚रः । जहा᳚ति । ए॒व । धा॒तः॒ । आयूं᳚षि । क॒ल्प॒य॒ । ए॒षाम् ॥
सायणभाष्यम् (Sayana Commentary)
यथा येन प्रकारेण अहानि अहोरात्रात्मकानि दिनानि अनुपूर्वं पूर्वमनुक्रमेण भवन्ति परिवर्तन्ते यथा च ऋतवोवसन्तादयऋतुभिः सह साधु शोभनं अविपर्यासेन यन्ति गच्छ न्ति यथा च पूर्वं पूर्वकालीनं पितरं अपरः अर्वाक्वालीनः पुत्रोन जहाति न परित्यजति पूर्वमरणेन एव एवं तेनैवोक्तप्रकारेण हे धातः सर्वेषां धारयितरेतन्नामक देव एषामस्म- त्कुलीनानां जीवानां आयूंषि जीवनानि कल्पय समर्थय कुर्वित्यर्थः ॥ ५ ॥