श्रवणम्

10.18.6 समानपद
आ रो᳚ह॒तायु᳚र्ज॒रसं᳚ वृणा॒ना अ᳚नुपू॒र्वं यत᳚माना॒ यति॒ ष्ठ ।
इ॒ह त्वष्टा᳚ सु॒जनि᳚मा स॒जोषा᳚ दी॒र्घमायु᳚ः करति जी॒वसे᳚ वः ॥
▶ पदपाठः (Word-by-word)
आ । रो॒ह॒त॒ । आयुः᳚ । ज॒रस᳚म् । वृ॒णा॒नाः । अ॒नु॒॑पू॒र्वम् । यत᳚मानाः । यति᳚ । स्थ ।
इ॒ह । त्वष्टा᳚ । सु॒॑जनि᳚मा । स॒॑जोषाः᳚ । दी॒र्घम् । आयुः᳚ । क॒र॒ति॒ । जी॒वसे᳚ । वः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मृतस्य स्वजनाः पुत्रपौत्रादयः जरसं जरां वृणानाः संभजपानायूयं आयुर्जीवनमा- रोहत अधितिष्ठत अनुपूर्वं आनुपूर्व्येण अव्ययीभावः पूर्वोज्येष्ठः ज्येष्ठानुपूर्व्या यतमानाः प्रयत्नं कुत्वन्तोयूयं यतिस्थ यत्संख्याकाभवथ यच्छब्दाच्छान्दसोडतिः सुजनिमा शोभन- जननः त्वष्टा एतन्नामकोदेवः सजोषाभवद्भिः संगतः सन् इहास्मिन् कर्मणि प्रवृत्तानां वोयुष्माकं जीवसे जीवनाय दीर्घं प्रभूतमायुः करति करोतु ॥ ६ ॥