विव᳚क्ति॒ वह्नि᳚ः स्वप॒स्यते᳚ म॒खस्त᳚वि॒ष्यते॒ असु᳚रो॒ वेप᳚ते म॒ती ॥
पदपाठः (Word-by-word)
विव᳚क्ति । वह्निः᳚ । सु॒॑अ॒प॒स्यते᳚ । म॒खः । त॒वि॒ष्यते᳚ । असु᳚रः । वेप᳚ते । म॒ती ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने त्वदीयं ज्योतिः पितरा पितरौ स्र्वप्राणिनां मातापितृभूते द्यावापृथिव्यौ प्रति उदीरय उद्गमय । तत्र दृष्टान्तः—आकारउपमार्थे रात्रेर्नक्षत्रादिदीप्तीनां च जरयित्रुत्वाज्जारआदित्यः सयथा द्यावापृथिव्यौ प्रति भगं भजनीयं स्वयं ज्योतिः उद्गमय ति तद्वत् हर्यतः यागं कामयमानान् प्रति इयक्षति यजमानोयष्टुमिच्छति हृतः हृदयेनेव इष्यति इषिरयं गत्यर्थः शुद्धोप्युपसर्गपूर्वोद्रष्टव्यः अधीष्यति देवान् यष्टुमधिगच्छति विव क्ति विवक्षति शस्त्रलक्षणाः स्तुतीर्वक्तुमिच्छति च वह्निर्वोढ स्तुतीनां देवान् प्रति प्राप- यिता होता च स्वपस्यते शोभनमात्मीयं कर्म कर्तुमिच्छति । मखः यज्ञनामैतत् अत्र तत् प्रयोक्ताध्वर्युरुच्यते सच तद्विष्यते तविषिर्वृध्यर्थः सचात्रान्तर्णीतसनर्थश्चद्रष्टव्यः तुतुविषति स्तोत्रृलक्षणाः स्तुतीः वर्धयितुमिच्छतीत्यर्थः । असुरः प्राणवान् प्रज्ञावान्वा ब्रह्मेति शेषः मती मत्या बुध्या वेपते कर्मवैगुण्यात् बिभ्यत् कंपते । हे अग्ने यतोयजमानः सर्वर्त्विजश्च स्वकर्मकर्तुं त्वामागच्छन्ति अतस्त्वं शीघ्रमुद्गमयेत्यर्थः ॥ ६ ॥