यद᳚ग्न ए॒षा समि᳚ति॒र्भवा᳚ति दे॒वी दे॒वेषु᳚ यज॒ता य᳚जत्र ।
रत्ना᳚ च॒ यद्वि॒भजा᳚सि स्वधावो भा॒गं नो॒ अत्र॒ वसु᳚मन्तं वीतात् ॥
रत्ना᳚ च॒ यद्वि॒भजा᳚सि स्वधावो भा॒गं नो॒ अत्र॒ वसु᳚मन्तं वीतात् ॥
पदपाठः (Word-by-word)
यत् । अ॒ग्ने॒ । ए॒षा । सम्॑इ᳚तिः । भवा᳚ति । दे॒वी । दे॒वेषु᳚ । य॒ज॒ता । य॒ज॒त्र॒ ।
रत्ना᳚ । च॒ । यत् । वि॒॑भजा᳚सि । स्व॒धा॒॑वः॒ । भा॒गम् । नः॒ । अत्र᳚ । वसु᳚॑मन्तम् । वी॒ता॒त् ॥
रत्ना᳚ । च॒ । यत् । वि॒॑भजा᳚सि । स्व॒धा॒॑वः॒ । भा॒गम् । नः॒ । अत्र᳚ । वसु᳚॑मन्तम् । वी॒ता॒त् ॥
सायणभाष्यम् (Sayana Commentary)
हे यजत्र यष्टव्याग्ने यद्यदा एषा समितिः अस्मत्कर्तृका स्तुतिः संहतिश्च यजता यज- तेषु यष्टव्येषु देवेषु मध्ये देवी द्योतमाना भवाति यष्टव्यादेवाः अस्माभिः स्तूयन्ते इज्य- न्ते चेत्यर्थः । हे स्वधावः हविर्लक्षणान्नवन्नग्ने त्वं यद्यदा रत्ना च रत्नानि रमणीयानि धनानि स्तोतृभ्योयष्टृभ्यश्च विभजासि विभजसि अत्र तदानीं तथा नोस्मान् प्रति वसु मन्तं धनवन्तं नानाधनावयवभूतं भागमंशं वीतात् वी गत्यादिषु तुह्योस्ताङाशिष्यन्यतर- स्यामिति हेः स्थाने तातङ्अन्तर्णीतण्यर्थश्चात्र द्रष्टव्यः वयय आगमय अस्मभ्यं प्रयच्छे- त्यर्थः ॥ ८ ॥