श्रवणम्

10.11.3 समानपद
सो चि॒न्नु भ॒द्रा क्षु॒मती॒ यश᳚स्वत्यु॒षा उ᳚वास॒ मन᳚वे॒ स्व᳚र्वती ।
यदी᳚मु॒शन्त᳚मुश॒तामनु॒ क्रतु᳚म॒ग्निं होता᳚रं वि॒दथा᳚य॒ जीज᳚नन् ॥
▶ पदपाठः (Word-by-word)
सो इति᳚ । चि॒त् । नु । भ॒द्रा । क्षु॒॑मती᳚ । यश᳚स्वती । उ॒षाः । उ॒वा॒स॒ । मन᳚वे । स्वः᳚॑वती ।
यत् । ई॒म् । उ॒शन्त᳚म् । उ॒श॒ताम् । अनु᳚ । क्रतु᳚म् । अ॒ग्निम् । होता᳚रम् । वि॒दथा᳚य । जीज᳚नन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

भद्रा भजनीया क्षुमती शब्दवती यशस्वती अन्नवती कीर्तिमती वा सोचित् सैव प्रसिद्धा उषाः मनवे मनुष्याय यजमानाय स्वर्वती आदित्यवती सती नु क्षिप्रं उवास उषितवती उदितवतीत्यर्थः । कदोदितवती उच्यते—यद्यदा उशन्तं स्तुतिं हविश्च काम- यमानं उशतां यष्टुं कामयमानानां संबन्धिनं होतारं देवानामाह्वातारं होमनिष्पादकं वा ईमेनमग्निं अनुक्रतुं स्तुतिकर्मणः पश्चात् विदथाय यजनीयाय यज्ञार्थं जीजनन् ऋत्विग्यजमानाः जनयन्तीत्यर्थः । तदोदितवतीतिसंबन्धः ॥ ३ ॥