श्रवणम्

10.16.3 समानपद
सूर्यं॒ चक्षु᳚र्गच्छतु॒ वात᳚मा॒त्मा द्यां च᳚ गच्छ पृथि॒वीं च॒ धर्म᳚णा ।
अ॒पो वा᳚ गच्छ॒ यदि॒ तत्र᳚ ते हि॒तमोष᳚धीषु॒ प्रति᳚ तिष्ठा॒ शरी᳚रैः ॥
▶ पदपाठः (Word-by-word)
सूर्य᳚म् । चक्षुः᳚ । ग॒च्छ॒तु॒ । वात᳚म् । आ॒त्मा । द्याम् । च॒ । ग॒च्छ॒ । पृ॒थि॒वीम् । च॒ । धर्म᳚णा ।
अ॒पः । वा॒ । ग॒च्छ॒ । यदि᳚ । तत्र᳚ । ते॒ । हि॒तम् । ओष᳚धीषु । प्रति᳚ । ति॒ष्ठ॒ । शरी᳚रैः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे प्रेत ते त्वदीयं चक्षुरिन्द्रियं सूर्यं गच्छतु प्राप्नोतु आत्मा प्राणः वातं बाह्यं वायुं गच्छतु अपिच त्वमपि धर्मणा सुकृतेन तत्फलं भोक्तुं द्यां च अत्र च शब्दोविकल्पार्थे द्युलोकं वा प्रुथिवीं च पृथिवीं वा गच्छ प्राप्नुहि अपोवान्तरिक्षलोकं गच्छ प्राप्नुहि यदि तत्रान्तरिक्षे हितं स्थापितं ते तव कर्मफलं ओषधीषु शरीरैः शरीरावयवैः प्रतितिष्ठ प्रतितिष्ठति ॥ ३ ॥